पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११५

पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तसंग्रहकारिकाः]
१११
संस्काररत्नमाला ।

अत ऊर्ध्वं त्वेतदेव सर्वाख्यमुभयत्र तु ।
संसर्गे कुणपोदक्यासूतिकापतितादिभिः ॥ १२ ॥
अन्याग्निभिश्च संसर्गे स्यात्तत्र पुनराहितिः ।
([१]वस्तुतोऽन्याग्निसंसर्गे वैविचश्चरुरेव तु ॥ १३ ॥
क्षेपकत्वात्तु खण्डस्य नैवात्र पुनराहितिः । )
श्रौतातिदेशात्सूत्याद्यैः संसर्ग इयमेव तु ॥ १४ ॥
गृह्याग्निद्वयसंसर्गे गृह्याग्निस्वामिनावुभौ ।
गृहीत्वा समिधौ तस्मिन्संसृष्टाग्निं सहैव तु ॥ २१५ ॥
मन्त्रेण तु समारोप्य ततस्तं लौकिकानलम् ।
मन्त्रेणाच्छा गिर इति विभज्योभौ ततोऽनले ॥ १६ ॥
स्वे स्वे स्वां स्वां च समिधमुपावेति तु मन्त्रतः ।
निक्षिपेत्तां ततः पाको वैविचस्तूभयोर्भवेत् ॥ १७ ॥
पृथग्गतोऽग्न्येकदेशः संसृष्टो लौकिकाग्निना ।
श्रौताग्निना वाऽथ यदि वैविचो न तदा भवेत् ॥ १८ ॥
किंतूपेक्ष्यैकदेशं तं जुहुयात्सर्वचित्तकम् ।
शतद्वयीकृद्वरदराजाभ्यामित्थमीरितम् ॥ १९ ॥
वनदाहाग्निसंसर्गे भवेद्व्रात[२]पतश्चरुः ।
चरुस्तदा स्याच्छुचये चेत्संसर्गः शवाग्निना ॥ २२० ॥
सूतिकानलसंसर्गे भवेत्सांकुसुकश्चरुः ।
वैद्युतानलसंसर्गे भवेदाप्सुमतश्चरुः ॥ २१ ॥
[३]पाकानां वैविचादीनां पञ्चानां संनिपातने ।
निमित्तक्रमसत्त्वेऽपि ज्ञेयो वाचनिकः क्रमः ॥ २२ ॥
विविचिश्च शुचिः पश्चाद्व्रतभृच्चाप्सुमांस्ततः ।
ततः संकुसुक इति क्रमस्तत्रैवमेव तु ॥ २३ ॥
संनिपाते क्षामवतोऽप्यन्त एव भवेदयम् ।
चतुरादिषु यस्य स्यान्निमित्तस्य त्वसंभवः ॥ २४ ॥
तावन्मात्रं परित्यज्यान्यः क्रमः पूर्ववद्भवेत् ।
स्थालीपाकातिपत्तौ तु चरुः पाथिकृतो भवेत् ॥ २२५ ॥


  1. धनुश्चिह्नान्तर्गतश्लोकस्थाने ग. घ. ङ. पुस्तकेषु-–"क्षेपकत्वे तु खण्डस्य वैविचश्चरुरेव नु । भवेदन्याग्निसंसर्गे नैवात्र पुनराहितिः" इति श्लोको वर्तते ।
  2. ग. घ. ड. तभृत ।
  3. ग. चरूणां ।