पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११९

पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तमन्त्रणामृष्यादि]
११५
संस्काररत्नमाला ।

हि सीरित्यनयोर्याज्ञिक्यो देवता उपनिषदो जातवेदा अग्निरनुष्टुप् । स्वयं प्रज्वलननिमित्तकप्रायश्चित्तार्थे समिद्द्वयाभ्याधाने विनियोगः-- "ॐ उद्दीप्यस्व जात० दिश" "मा ना हि सी० पातय" । आपो हिष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । स्कन्नप्रणीतापात्रपूरणे विनियोगः । स्कन्नप्रोक्षणीपात्रस्य पूरणे विनियोगः । शोषणेन[१] रिक्तस्य पात्रस्य पूरणे विनियोगः, इति शोष[२]णे । स्रवणेन रिक्तस्य पात्रस्य पूरणे विनियोगः । इति स्रवणे ।

 "ॐ आपो हि० च नः"  । ततं म आप इत्यस्य विश्वे देवा ऋभवो जगती, प्रणीतास्कन्दननिमित्तकप्रायश्चित्ताज्यहोमे विनियोगः । प्रोक्षणीस्क०ज्यहोमे विनि० । प्रणीताशोषणनिमित्तकप्रायश्चि० । प्रणीतास्रवणनिमित्त० । प्रोक्षणीशोषणनिमित्तकप्रा० । प्रोक्षणीस्रवणनिमित्तकप्रायश्चित्ताज्य० । "ॐ ततं म आ० र्भुवः स्वाहा" ऋभुभ्य इदं० । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । आयतनाद्बहिः समुत्सृप्तस्याग्नेः स्वस्थाने प्रक्षेपणे विनियोगः । अज्ञाताग्निबहिष्पातप्रायश्चित्ताज्यहोमे विनियोग इति यथायथं विनियोगवाक्यम् । "ॐ भूर्भुवः सुवः"

 देवानित्यादीनां पञ्चानां सौ[३]त्रमन्त्राणां वामदेव ऋषिः । देवा गन्धर्वाः पितर आप ओषधयो वनस्पतयश्च पञ्चजना इति क्रमेण देवताः । यजूंषि । स्कन्नानुमन्त्रणे विनियोगः--

 "देवाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु वर्धताम् । गन्धर्वाञ्जनमगन्यज्ञ० वर्धताम् । पितॄञ्जनम० वर्धताम् । आप ओषधीर्वनस्पतीञ्जनम० वर्धताम् । पञ्चजनाञ्जनम० वर्धताम्" ।

 भूपतय इत्यादीनां चतुर्णां[४] मन्त्राणां वामदेव ऋषिः । आद्यानां त्रयाणामग्निर्वा । भूपतिर्भुवनपतिर्भूतानां पतिर्भूतमिति क्रमेण देवताः । यजूंषि । समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती । प्रादेशकरणे विनियोगः--

 "ॐ भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा भूताय स्वाहा भूर्भुवः सुवः स्वाहा" ।

 सं त्वा सिञ्चामीत्यस्य[५] मन्त्रस्य प्रजापतिः स्कन्नं हविरनुष्टुप् । स्कन्नोपरि [६]जलसिञ्चने विनियोगः "स त्वा सिञ्चामि० रिषत्" यज्ञस्य त्वेत्यस्य सौत्रमन्त्रस्य


  1. क. ख. न स्रवणेन वा रि ।
  2. क. ख. षणस्रावणयोः । आ ।
  3. क. ख. सौत्राणां । क. र्णा. वा ।
  4. क. र्णा. वा ।
  5. क. स्य प्र ।
  6. "जलसेचने" इति पाठोऽपेक्षितः ।