पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३०

पुटमेतत् सुपुष्टितम्
१२६
[ग्रहयज्ञः]
भट्टगोपीनाथदीक्षितविरचिता--
(सापवादाऽऽहुतिः, पीठरचना)
 

 तरणिः सूर्यः । विद्बुधः । भृगुः शुक्रः । भास्करिः शनिः । चन्द्रमाः प्रसिद्धः । कुजो भौमः । सुरेज्यो गुरुः । विधुंतुदो राहुः । केतुः प्रसिद्धः । दिनकरः सूर्यः । आर्किः शनिः । तमो राहुः । कुजो मङ्गलः । केतुश्चेत्येते हुतभुजश्चेन्न शुभाः । इतरेऽवशिष्टाश्चन्द्रबुधबृहस्पतिशुक्रा हुतभुजश्चेच्छुभा इत्यर्थः ।

 अत्रापवादः क्रियासारे--

"नित्ये नैमित्तिके दुर्गाहोमादौ न विचारयेत्" इति ।

 " ([१]सर्वतोभद्रपीठे तु सर्वाधारं प्रकीर्तितम्" इति स्मृतिवचनात्सर्वतोभद्रपीठं वेदिकायां शान्तिरत्नमालायां वक्ष्यमाणेन प्रकारेण रचयित्वा तत्र ब्रह्मादिदेवता आवाह्य संपूज्य तदुपरि वेदिपरिमिते श्लक्ष्णे क्षौमवस्त्रे कार्पासवस्त्रे वा ग्रहपीठानि निष्पादयेत् ।

 तत्प्रकार इत्थम्-- वेदिपरिमितं श्लक्ष्णं क्षौमं वस्त्रं कार्पासं वा प्रसार्य वस्त्रप्रान्तेऽ[२]वध्यर्थं चतुर्दिक्षु समन्तादेकैकां रेखां लिखित्वा ततोऽन्तरैकैकाङ्गुलान्तरालास्तिस्रस्तथैव लिखित्वा शिष्टं चतुरश्रमन्तर्गतं प्रागुदक्च त्रेधा विभज्य तेन निष्पन्नेषु नवकोष्ठेषु मध्यकोष्ठे सूर्यस्य । आग्नेयकोष्ठे सोमस्य । दक्षिणकोष्ठे भौमस्य । ऐशानकोष्ठे बुधस्य । उत्तरकोष्ठे गुरोः । पूर्वकोष्ठे शुक्रस्य । पश्चिमकोष्ठे शनेः । नैर्ऋतकोष्ठे राहोः । वायव्यकोष्ठे केतोः । इत्येवं क्रमेण वक्ष्यमाणप्रकारेण लिखित्वा तत्तद्वर्णाक्षतैः पूरयेत् ।

 अथवा-- यथा ग्रहपीठानां पत्रेषु निवेशो भवति तावत्प्रमाणं पत्रं सकर्णिकमष्टपत्रं पद्मं विलिख्य कर्णिकायां सूर्यस्याऽऽग्नेयपत्रे सोमस्य दक्षिणपत्रे भौमस्यैशानपत्रे बुधस्योत्तरपत्रे गुरोः पूर्वपत्रे शुक्रस्य पश्चिमपत्रे शनेर्नैर्ऋततपत्रे राहोवार्याव्यपत्रे केतोरिति ।

अथ ग्रहपीठरचनाप्रकारः ।

 प्रसारितवस्त्रस्य मध्ये रक्तवर्णचूर्णेन षड्यूकासप्तयवसहितैकाङ्गुलात्मकव्यासार्धेन [३]कर्काटकेन सूर्यस्य वृत्तं पीठं विदध्यात् ।

 आग्नेय्यां श्वेतचूर्णेन यूकाद्वयसप्तयवसहितचतुरङ्गुलात्मकभुजचतुष्टयेन चतुरश्रं सोमस्य पीठम् ।


  1. धनुचिह्नान्तर्गतो ग्रन्थो ग. घ. ङ. पुस्तकेष्वेवास्ति ।
  2. ङ. न्ते वध्य ।
  3. ड. कर्कोट ।