पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३५

पुटमेतत् सुपुष्टितम्
[ग्रहमखप्रयोगः]
१३१
संस्काररत्नमाला ।
( सर्वतोभद्रमण्डलदेवतावाहनम् )
 

गौरी जगती, गौर्यावाहने वि० "ॐ गौरीर्भिमाय सलिलानि तक्ष० व्योमन् । गौर्यै नमः, गौरीमावाहयामि" इति गौरीमावाहयेत् । ततः पदार्थानुसमयेन तैरेव मन्त्रैः क्रमेण षोडशोपचारैः) संपूज्याऽऽयतनं समन्ताद्रङ्गवल्लिकया भूषयित्वा गोमयेनोपलिप्यो[१]द्धननादि कृत्वा वरदनामानं मथितं श्रोत्रियागारादाहृतं वाऽग्निं प्रतिष्ठाप्य "ॐ चत्वारि शृङ्गा" इति ध्यायेत् । पुष्टिकामनायां तु बलवर्धननामाऽग्निः । ततो[२] ग्रहपीठदेवतास्थापनादि कुर्यात् ।

 तद्यथा--मण्डपस्येशानकोष्ठे मध्य एकहस्तप्रमाणां चतुरश्रां[३] द्वादशाङ्गुलोच्चां वेदिं विधाय तस्या अधस्तादेकाङ्गुलोच्छ्रायं द्व्यङ्गुलविस्तारमेकं वप्रं कृत्वा तस्याधस्तात्तथैवान्यदेकं वप्रं कृत्वा तस्याधस्तादेकं वप्रं द्व्यङ्गुलोच्छ्रायविस्तारं कृत्वा तद्वप्रत्रयमुपरितनवप्रमारभ्य क्रमेण श्वेतरक्तकृष्णचूर्णै रञ्जयेत्[४] । एतानि वप्राणि वेदिप्रमाणान्तर्गतान्येव भवन्ति । ततस्तस्यां सति संभवे[५] मत्कृतशान्तिरत्नमालोक्तरीत्या सर्वतोभ[६]द्रं विरच्य तत्र ब्रह्मादिदेवता[७] आवाहयेत् ।

 तद्यथा--ब्रह्म जज्ञानमित्यस्याग्निर्ब्रह्मा त्रिष्टुप् । ब्रह्मावाहने विनियोगः ।"ॐ ब्रह्म जज्ञानं० विवः । ब्रह्मणे नमः, ब्रह्माणमावाहयामि" इति पीठमध्ये ब्रह्माणम् ।

 आप्यायस्वेत्यस्य सोमोऽग्निर्वा सोमो गायत्री । सोमावाहने विनियोगः । "ॐ आप्यायस्व समे० संगथे । सोमाय नमः सोममावाहयामि" इत्युत्तरे सोमम् ।

 अभि त्वेत्यस्य विश्वे देवा ईशानो गायत्री । ईशानावाहने विनियोगः--

 "ॐ अभि त्वा० महे । ईशानाय नमः, ईशानमावाहयामि" इतीशान्यामीशानम् ।

 इन्द्रं वो विश्वत इत्यस्य विश्वे देवा इन्द्रो गायत्री । इन्द्रावाहने विनियोगः-- "ॐ इन्द्रं वो विश्व० वलः । इन्द्राय नमः, इन्द्रमावाहयामि" इति पूर्व इन्द्रम् ।

 अग्निं दूतमित्यस्य प्रजापतिरग्निर्गायत्री । अग्न्यावाहने विनियोगः-- "ॐ अग्निं दूतं वृणी० सुक्रतुम् । अग्नये नमोऽग्निमावाहयामि" इत्याग्नेय्यामग्निम् ।


  1. ग. घ. ड. प्योल्लेखना ।
  2. ग. घ. ड. तो मण्ड ।
  3. क श्रां विस्तृताधस्तनवप्रामङ्गुलोच्छ्रितविस्ततोपरि वेदिं विधाय तस्या अधस्ताद्वप्रं द्व्यङ्गुलोच्छ्रायं(य) विस्तारं कृत्वा तदुपर्येकैकाङ्गुलोच्छ्रायं द्व्यङ्गुलविस्तार वद्वप्रयं विधाय तद्वप्र ।
  4. ग. घ. ड. त् । ततो वेद्यां स ।
  5. घ ड. वे शान्तिरत्नमालायां वक्ष्यमाणेन प्रकारेण स ।
  6. घ. ङ. भद्रपीठं वि ।
  7. क. तास्थापन पूजन च कुर्यात् । तत्र मन्त्राः । ब्र । ग. तास्थापन पूजनं च कुर्यात् । स्थण्डिलपक्षेऽपीयं वेदिः । अथ तन्मन्त्राः । व्र ।