पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१३८

पुटमेतत् सुपुष्टितम्
१३४
[ग्रहमुखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(सर्वतोभद्रमण्डलदेवतावाहनम्)
 

योगः । "ॐ परं मृत्यो० वीरान्" । मृत्युरोगेभ्यो नमो मृत्युरोगानावाहयामि । इति ब्रह्मयमयोर्मध्ये मृत्युरोगान् ।

 गणानां त्वेत्यस्य विश्वे देवा गणपतिर्जगती । गणपत्यावाहने विनियोगः । "ॐ गणानां त्वा० सादनम्" गणपतये नमो गणपतिमावाहयामि । इति ब्रह्मनिर्ऋत्योर्मध्ये गणपतिम् ।

 शं नो देवीरित्यस्य विश्वे देवा आपो गायत्री । अबावाहने विनियोगः । "ॐ शं नो देवी० न्तु नः' अद्भ्यो नमोऽप आवाहयामि । इति ब्रह्मवरुणयोर्मध्ये, अपः ।

 मरुतो यस्येत्यस्य विश्वे देवा मरुतो गायत्री । मरुदावाहने विनियोगः । 'ॐ मरुतो यस्य० जनः' मरुद्भ्यो नमो मरुत आवाहयामि । इति ब्रह्मवाय्वोर्मध्ये मरुतः ।

 स्योना पृथिवीत्यस्य याज्ञिक्यो देवता उपनिषदः पृथिवी गायत्री । पृथिव्यावाहने विनियोगः । "ॐ स्योना पृथिवि भवा० प्रथाः' पृथिव्यै नमः प्रथिवीमावाहयामि । इति ब्रह्मणः पादमूले कर्णिकाधः पृथिवीम् ।

 इमं मे गङ्ग इत्यस्य याज्ञिक्यो देवता उपनिषदो गङ्गादिनद्यो जगती । गङ्गादिनद्यावाहने विनियोगः । 'ॐ इमं मे गङ्गे० सुषोमया' गङ्गादिनदीभ्यो नमो गङ्गादिनदीरावाहयामि । इति तत्रैव गङ्गादिनदीः । धाम्नो धाम्न इत्यस्य सोमः सप्तसागराः पङ्क्तिः । सप्तसागरावाहने विनियोगः । 'ॐ धाम्नो धाम्नो० नो मुञ्च' । सप्तसागरेभ्यो नमः सप्तसागरानावाहयामि । इति तत्रैव सप्तसागरान् ।

 "ॐ मेरवे नमो मेरुमावाहयामि' । इति तदुपरि मेरुम् ।

 तत आयुधानि । 'ॐ गदायै नमो गदामावाहयामि' इति सोमस्योत्तरे गदाम् । 'ॐ त्रिशूलाय नमस्त्रिशूलमावाहयामि' । इतीशानस्येशान्यां त्रिशूलम् । 'ॐ वज्राय नमो वज्रमावाहयामि । इतीन्द्रस्य पूर्वे वज्रम् । 'ॐ शक्तये नमः शक्तिमावाहयामि' । इत्यग्नेराग्नेय्यां शक्तिम् । 'ॐ दण्डाय नमो दण्डमावाहयामि' इति यमस्य दक्षिणे दण्डम् । 'ॐ खड्गाय नमः खड्गमावाहयामि' इति निर्ऋतेनैर्ऋत्यां खड्गम् । 'ॐ पाशाय नमः पाशमावाहयामि' इति वरुणस्य पश्चिमे पाशम् । 'ॐ अङ्कुशाय नमोऽङ्कुशमावाहयामि' इति वायोर्वायव्यामङ्कुशम् । इत्यायुधानि ।

 'ॐ गौतमाय नमो गौतममावाहयामि' इति गदाया उत्तरे गौतमम् । 'ॐ भरद्वाजाय नमो भरद्वाजमावाहयामि' इति त्रिशूलस्येशान्याम् । 'ॐ विश्वामित्राय