पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१५६

पुटमेतत् सुपुष्टितम्
१५२
[ग्रहयज्ञप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
(अन्वाधानम् )
 

प्रमाणद्विगुणप्रमाणत्वमर्धाधिकप्रमाणत्वं वा । समिधि दैर्घ्यविषयकमेव द्वैगु[१]ण्यमर्धाधिकत्वं वा । विना स्पष्टवचनमेकदा समिद्द्वयाभ्याधाने दोषश्रवणात् ।

 वैशेषिकप्रधानहोमे--सूर्यं सोममङ्गारकं बुधं बृहस्पतिं शुक्रं शनैश्चरं राहुं केतुमेतत्संख्याकाभिरेतत्संख्याकाभिर्यथायथमर्कादिसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च । एतदित्येतस्य स्थानेऽष्टोत्तरसहस्रमष्टोत्तरशतमष्टाविंशतिं वा कीर्तयेत् ।

 ईश्वरमुमां स्कन्दं नारायणं ब्रह्माणमिन्द्रं यमं कालं [२]चित्रगुप्तमेता अधिदेवताः, अग्निमपो भूमिं विष्णुमिन्द्रमिन्द्राणीं प्रजापतिं सर्पान्ब्रह्मा[३][४]मेताः प्रत्यधिदेवताश्च, एतत्संख्याभिरेतत्संख्याभि[५]र्यथायथमर्कादिसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च । एतदित्येतस्य स्थाने[६] प्रधानदेवतानां योत्कीर्तितसंख्या ततो न्यूनां संख्यां प्रतिदेवतमष्टोत्तरशतमष्टाविंशतिमष्टौ वा कीर्तयेत् ।

 गणपतिं दुर्गां वायुमाकाशमश्विनौ वास्तोष्पतिं क्षेत्रपालमिन्द्रमग्निं यमं निर्ऋतिं वरुणं वायुं सोममीशानमेतत्संख्याभिरेतत्संख्याभिः पलाशसमिद्भिस्तावतीभिश्चर्वाहुतिभिस्तावतीभिराज्याहुतिभिश्च । एतदित्येतस्य स्थानेऽधिदेवताप्रत्यधिदेवतानां[७] योत्कीर्तिता संख्या ततो न्यूनां संख्यामष्टाविंशतिमष्टौ चतुर्वा कीर्तयेत् । अधिप्रत्यधिदेवतानां प्रधाना[८]हुतिसंख्यादशांशन होमः[९] । कर्मसंरक्षणदेवतानां प्रतिदेवतं प्रधानाहुतिसंख्याविंशांशेनेत्येवं वा । ([१०]अस्मिन्कल्पे प्रधानदेवतानां प्रतिदेवतं सहस्रं शतं वेत्येवमेव संख्याद्वयं भवति । न तु सहस्रशतात्मकसंख्ययोरप्टोत्तरत्वं न वाऽष्टाविंशतिसंख्यादशांशविंशांशयोरत्रासंभवात् ।


  1. क. गुण्य वि ।
  2. क.ख. प्तमग्नि ।
  3. ख. ह्माणं प्रत्येकमेत ।
  4. क. णम् । ए ।
  5. क. भिर्वा यथा ।
  6. क. ख. ने पूर्वसंख्यान्यूनाम ।
  7. क. तासंख्यातो न्यू ।
  8. क. धानद ।
  9. क. ग. मः । इतरदेवतां वि ।
  10. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. ग. पुस्तकेष्वन्यथा ग्रन्थः स यथा--"संख्योत्कीर्तनम् । सर्वतोभद्रं चेत्तदा पूजोत्तरमेव होमाकरणपक्षेऽत्रान्वाधानं सर्वतोभद्रमण्डलदेवता दशदशसंख्याकाभिधृताहुतिभिस्तिलाहुतिभिर्वा यक्ष्य इति ग्रहहोमात्पूर्वं वा मण्डलदेवतान्वाधानं होमोऽपि तत्पूर्वमेव । तेषां प्रत्येकमेकैकाऽऽहुतिरिति केचित् । ततोऽङ्गहोमे वरुणमित्यादि व्याहृत्यन्तत्वपक्षे । प्रसाधनीदेव्यन्तत्वपक्षे तु--अग्निं स्विष्टकृतं हुतशेषाहुत्येत्यादि पात्रासादनकाले दर्व्यासादनोत्तरं बहूनां चरूद्धरणपात्राणां स्रुवाणामाज्यस्थालीनां च बह्वीनामासादन प्रोक्षण च कार्यम् । वक्ष्यमाणाघारवत्स्थालीपाकधर्मेण चरु श्रपयित्वा युगपदनेककर्तृकचर्वाज्यहोमनिर्वाहाय सर्वेषां स्रुवाणां संमार्गः कार्यः । स्रुवस्थाने दर्व्यो वा, तासामपि संमार्गः । पर्यग्निकरणकाले सवैर्होमद्रव्यैः सहाऽऽज्यस्य पर्यग्निकरणम् । ततः शृतं चरुमभिघार्योत्तरत उद्वास्य बर्हिष्यासाद्य तत्रैवाऽऽसादितेषु चरुद्धरणपात्रेषूद्धृत्य यथादैवतं विभज्य परिषेकादि प्रसाधनीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तितपक्षानुसारेण कृत्वा गणानां त्वेति मन्त्रेण पलाशसमिच्चर्वाज्यानामेकैकामाहुतिमाचार्य एव जुहुयात् । गणपतय इदं न ममेति यजमानस्त्यागं कुर्यात् । तत ऋत्विज उदङ्मुखाः प्राङ्मुखा वोपविश्य द्विराचम्यामुक्तकेशा निपातितजानुकाः सावधानमनसो वाग्यता भवेयुः । ततो" इति ।