पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०

पुटमेतत् सुपुष्टितम्
१६
[कुशच्छेदनविधिः]
भट्टगोपीनाथदीक्षितविरचिता--
(छेदनीयकुशलक्षणम्)
 

लौकिकच्छेदनपरो न त्विध्मादिच्छेदनपरस्तस्य विहितत्वादिति द्रष्टव्यम् । सोमवासकालस्तु गरुडपुराणेऽभिहितः--

"त्रिमुहूर्तं वसत्यर्के त्रिमुहूर्तं जले तथा ।
त्रिमुहूर्तं तथा गोषु त्रिमुहूर्तं वनस्पतौ" इति ।

 एतच्चामामारभ्य ज्ञेयम् । कुशच्छेदनविधिमाह कौशिकः--

"शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः ।
ओंकारेण तु मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्तमः ॥
विरिञ्चिना सहोत्पन्नं परमेष्ठिनिसर्गज ।
नुद सर्वाणि पापानि कुश स्वस्तिकरो भव ॥
इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः ।
हुंफट्कारेण दर्भांस्तु सकृच्छित्त्वा समुद्धरेत्" इति ।

 क्त्वाप्रत्ययादेव च्छेदनेऽपि पूर्वोत्तरामुखत्वे सिद्धे पुनर्वचनं विशेषविधिप्रतिपादितधर्मान्तरपरिसंख्यार्थम् । तेन स्थित्वेत्यस्यैव विशेषविधिप्रतिपादितत्वाच्छेदने निवृत्तिः । शुचौ देशे शुचिर्भूत्वेत्यस्य तु न निवृत्तिः । विशेषविधिप्रतिपादितत्वाभावादिति द्रष्टव्यम् । क्वचिच्छेदने विशेष उक्तो भरद्वाजेन--

"प्रेतक्रियार्थं पित्रर्थमभिचारार्थमेव च ।
दक्षिणाभिमुखश्छिन्द्यात्प्राचीनावीतिको द्विजः" इति ।

 छेदनीयकुशान्विशिनष्ट्यङ्गिराः--

"अच्छिन्नाग्रान्पवित्रांश्च अच्छिद्रान्कोमलाञ्शुभान् ।
पितृदेवक्रियार्थं च समादद्यात्कुशान्द्विजः" इति ।

 त्याज्यान्कुशानाह हारीत:--

"पथि दर्भाश्चितौ दर्भा ये दर्भा यज्ञभूमिषु ।
स्तरणासनपिण्डेषु तेषां त्यागो विधीयते" इति ।

 आपस्तम्बः--

"ब्रह्मयज्ञे च ये दर्भा ये चैव पितृतर्पणे ।
हता मूत्रपुरीषाभ्यां तेषां त्यागो विधीयते" इति ।

 देवलः--

"अपूता गर्भिता दर्भा चाग्रच्छेदिता नखैः ।
क्वथिता अग्निदग्धाश्च कुशा वर्ज्याः प्रयत्नतः" इति ।