पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२०३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
१९९
संस्काररत्नमाला ।
( मण्डपदेवतापूजनप्रतिष्ठापनादि )
 

रकहरिद्राद्युद्वर्तनोष्णोदकस्नानानि कारयित्वाऽऽपो हि ष्ठेतितिसृभिः संस्नाप्याऽऽचमनीयं दत्त्वा ताः शाखा मातृकावंशपात्रे पूर्ववन्निधाय वस्त्रादिपुष्पान्तानुपचारान्समर्प्य दधिक्राव्ण इति दध्ना काण्डात्काण्डादिति दूर्वाभिश्चाभ्यर्च्य धूपाद्युपचारान्समर्प्य ।

"मन्त्रहीनं क्रियाहीनं भक्तिहीनं च देवताः ।
यत्पूजनं कृतमिदं परिपूर्णं तदस्तु मे" ॥

 इति संप्रार्थ्य वंशपात्रं स्वयं गृहीत्वाऽविघ्नगणपतिकलशं भार्यया ग्राहयित्वा घण्टादिवाद्यघोषेण सहितः सब्राह्मणः 'ॐ स्वस्ति न इन्द्रो वृद्धश्र० बृहस्पतिर्दधातु' 'अष्टौ देवा वसवः सो० ममृत स्वस्ति' 'ऋद्ध्यास्म हव्यैर्नमसो० सवीराः' इति मन्त्रान्पठन्गृहमध्ये गत्वा प्रतिष्ठापनदेशमुपलेपयित्वा रङ्गवल्ल्यादिभिरलंकृत्य तत्र तण्डुलान्प्रक्षिप्य तेषु तद्वंशपात्रं नर्य प्रजामिति प्रतिष्ठाप्य तत्रैवोत्तरतः कलशं भार्यया निधाप्य पञ्चोपचारैः संपूज्य स्थापितदेवताप्रीत्यर्थं यथाविभवं ब्राह्मणान्सुवासिनीश्च संभोज्य तेभ्यो यथाविभवं वस्त्रादि दद्यात् ।

 ततो नीराजिताभ्यां दंपतिभ्यां सुहृदो वस्त्रादि दद्युः ततः कर्ताऽन्यदपि कुलधर्मानुसारि कर्म चेत्तदपि कुर्यात् । यावन्मण्डपोद्वासनं प्रत्यहं स्थापितदेवताः पूजयेत् ।

 यथोक्तमण्डपकरणानुकूल्ये सति षोडशद्वादशान्यतमसंख्यहस्तपरिमितोऽसंभवेऽष्टहस्तपरिमितः स्थलानुरोधेन वा चतुरोपशोभितस्तोरणैर्युक्तो दृढस्तम्भचतुष्टययुक्तः सद्मनो वामभागे द्वारसमीपे वा मण्डपः कार्यः । अत्राऽऽचार्यहस्त एव ग्राह्यो न तु संस्कार्यस्य । अन्यथा मण्डपस्याष्टहस्तत्वपक्षेऽतिलघुतापत्तेः ।

"आचार्यहस्तमानेन मण्डपे निर्मिते शुभे ।
मध्ये वेदी प्रकर्तव्या चतुरश्रा समन्ततः" ॥

 इति ज्योतिर्निबन्धवचनाच्च ।

 आचार्य इति संस्कारकोपलक्षणं, तेन विवाहेऽपि मण्डपः संस्कारकस्य पित्रादेर्हस्तेनैव ।

"कन्याहस्तैः पञ्चभिः सप्तभिर्वा कार्या वेदिः कूर्मपृष्ठोन्नता सा" ।

 इति वचनेन वेदिविषय एव कन्याहस्तपरिमाणत्वे प्रतिपादिते मण्डपे संस्कारकहस्तपरिमाणत्वमर्थतः प्रतिपादितं भवति । तत्राऽऽग्नेय्यामाम्रमयो जम्बूमयो