पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२११

पुटमेतत् सुपुष्टितम्
[उपनयनप्रयोगः]
२०७
संस्काररत्नमाला ।
( हृदयालम्भादि कषकादिदेवताप्रदानान्तम् )
 

चित्तं चित्तेनान्वेहि, मम वाचमेकमना जुषस्व, बृहस्पतिस्त्वा नियुनक्तु मह्यं, मामेवानुस रभस्व, मयि चित्तानि सन्तु ते, मयि सामीच्यमस्तु ते, मह्यं वाचं नियच्छतात्" [ इति ] कुमारस्य हृदयमभिमृशति ।

 अप उपस्पृश्य'ॐ प्राणानां ग्रन्थिरसि समाविस्रसः" [ इति ] तथैव नाभिदेशमभिमृशति । अप उपस्पृश्य 'ॐ भूर्भुवः सुवः सुप्रजाः प्रजया भूयास सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिः" [ इति ] कुमारमभिमन्त्र्य 'ॐ भूर्ऋक्षु त्वाऽग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽमुकशर्मन् । भुवो यजुःषु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽमुकशर्मन् । सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽमुकशर्मन् । इष्टतस्ते प्रियोऽसान्यमुकशर्मन् । अनलस्य ते प्रियोऽसान्यमुकशर्मन् । इदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषि वसामुकशर्मन्" [ इति ] पुनः कुमारमभिमन्त्रयते ।

 अग्निरायुष्मानिति सानुषङ्गाणां मन्त्राणां विश्वे देवा अग्न्यायुष्मदादयो यजूंषि । कुमारस्य दक्षिणहस्तग्रहणे विनियोगः । 'अग्निरायुष्मान्स व० सोम आयुष्मान्स० यज्ञ आयुष्मान्स० ब्रह्माऽऽयुष्मत्त० देवा आयुष्म०' एतैः पञ्चभिः पर्यायैर्दक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति ।

 आयुष्टे विश्वत इत्यस्य विश्वे देवा [१]आयुर्दा अग्निरनुष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । कुमारस्य दक्षिणकर्णे जपे विनियोगः 'ॐ आयुष्टे वि० मिते" "अग्नौ पृथिव्या प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि या स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपो नु संचरन्ति ता स्वस्तिमनुसंचरामुकशर्मन्प्राणस्य ब्रह्मचार्यभूरमुकशर्मन्' [ इति ] कुमारस्य दक्षिणे कर्णे जपति ।

 आयुर्दा अग्न इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । कुमारस्योत्तरकर्णे जपे विनियोगः । 'ॐ आयुर्दा अ० दिमम्' 'अग्नौ पृथिव्यां० भूरमुकशर्मन्' [ इति ] कुमारस्योत्तरे कर्णे जपति । 'मेधां त इन्द्रो ददातु मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्त्रजौ' [इति ] कुमारस्य मुखं स्वमुखेन सह संनिधाय जपति ।

 कषकादिदेवेभ्यस्त्वां परिदद इति कुमारं ब्रूयात् । परिदेहीति कुमारः ।

 तत आचार्यः--

 "कषकाय त्वा परिददाम्यन्तकाय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा


  1. घ. ङ. आयुर्धा ।