पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३५

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२३१
संस्काररत्नमाला ।
( जपस्य त्रैविध्यम्, तल्लक्षणं च )
 

तर्जनीमूलपर्यन्तं जपेद्दशसु पर्वसु ।
मध्यमाङ्गुलिमूले तु यत्पर्वद्वितयं भवेत् ।
तं वै मेरुं विजानीयाज्जपे[१] तं नातिलङ्घयेत्" इति ।

 अगस्त्यसंहितायाम्--

"कनिष्ठाऽनामिका मध्या चतुर्थी तर्जनी मता ।
तिस्रोऽङ्गुल्यस्त्रिपर्वाः स्युर्मध्यमा त्वेकपर्विका ।
पर्वभिस्तु जपः कार्यो नाङ्गुलीनां निपातनैः ।
मध्यमाद्यद्व[२]यं पर्व जपकाले विवर्जयेत् ।
एतन्मेरुं विजानीयात्करमालाजपे बुधैः" इति ॥

 स्मृत्यन्तरे तु--

"आरभ्यानामिकामूलात्प्रादक्षिण्येन वै क्रमात् ।
मध्यमामूलपर्यन्तं जपेद्दशसु पर्वसु" इत्युक्तम् ॥

 जपस्त्रिविधः । नृसिंहपुराणे--

"त्रिविधो जपयज्ञः स्यात्तस्य भेदं निबोधत ।
वाचिकश्च उपांशुश्च मानसस्त्रिविधः स्मृतः ।
त्रयाणां जपयज्ञानां श्रेयान्स्यादुत्तरोत्त[३]रम्" इति ॥

 वाचिकोपांशुत्वयोर्लक्षणं पुराणेऽभिहितम्--

"यदुच्चनीचस्वरितैः शब्दैः स्पष्टपदाक्षरैः ।
मन्त्रमुच्चारयेद्वाचा वाचिकोऽयं जपः स्मृतः ॥
शनैरुच्चारयेन्मन्त्रमीषदोष्ठौ प्रचालयेत् ।
अपरैरश्रुतः किंचित्स उपांशुजपः स्मृतः[४]" इति ॥

 विश्वामित्रेण मानसस्य लक्षणमुक्तम्--

"धिया यदक्षरश्रेण्या वर्णाद्वर्णं पदात्पदम् ।
शब्दार्थचिन्तनं भूयः कथ्यते मानसो जपः" इति ॥

 त्रयाणां तारत[५]म्यं च तेनैवोक्तम्--

"उत्तमं मानसं जाप्यमुपांशु मध्यमं स्मृतम् ।
अधमं वाचिकं प्राहुः सर्वमन्त्रेषु वै द्विजः(द्विजाः) ॥


  1. क. ङ. पेत्तं ना ।
  2. घ. द्वयप ।
  3. क. त्तरः" इति । एतेषां लक्षणानि तत्राभिहितानि । य ।
  4. क. तः । धि ।
  5. क. म्यं विश्वामित्रेणोक्त ।