पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२४

पुटमेतत् सुपुष्टितम्
२०
[यज्ञियपात्रलक्षणानि]
भट्टगोपीनाथदीक्षितविरचिता--
(आज्यस्थालीलक्षणम्)
 

 स्रुवे विशेषमाह स एव--

"पालाशेन स्रवेणेत्यात्रेयः खादिरेणेत्याङ्गिरसस्ताम्रायसेनेत्याथर्वणः
कार्ष्णायसेनाभिचरन्निति सार्वत्रिकम्" इति ।

 दर्व्या आकृतिर्लोकप्रसिद्धा भाषया 'पळी' इत्युच्यते । तदलाभे स्रुगलाभे दर्व्यलाभे च स्रुवस्थानीयं पर्णमत्र मध्यमं ग्राह्यम् ।

"मध्यमेन पर्णेन जुहोति स्रुग्ध्येषा" इति श्रुतेः ।
"खादिरो मुसलः कार्यः पालाशः(शं) स्यादुलूखलः(लम्) ।
यद्वोभौ वारणौ कार्यौ तद[१]लाभेऽन्यवृक्षजौ ॥
चमसः स्यात्प्रणीतानां कांस्यपात्रमथापि वा" इति ।

 आज्यस्थालीलक्षणं छन्दोगपरिशिष्टे--

"आज्यस्थाली प्रकर्तव्या तैजसद्रव्यसंभवा ।
महीमयी वा कर्तव्या सर्वास्वाज्याहुतीषु च ॥
आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् ।
सुदृढामव्रणां भद्रामाज्यस्थालीं प्रचक्षते" इति ।

 आज्यस्थाली मृन्मयीति मातृदत्तवैजयन्तीकारौ । कांस्यमयीति केचित् । सा चार्थसिद्धपरिमाणा विशेषानुक्तेः । यथाकामं तु कारयेदित्यनन्तरोदाहृतच्छन्दोगपरिशिष्टवचनाच्च । मृन्मयीतिपक्षे हस्तघटितैव न कुलालचक्रनिर्मिता । अचक्रावर्तामित्यग्निहोत्रहोमप्रकरणे सूत्रकारेणोक्तत्वात् ।

"कुलालचक्रनिष्पन्नमासुरं मृन्मयं स्मृतम् ।
तदेव हस्तघटितं स्थाल्यादि दैविकं भवेत्" ।

 इति कर्मप्रदीपवचनाच्च । चक्रेणाऽऽवर्तो भ्रमो यस्याः सा चक्रावर्ता न चक्रावर्ताऽचक्रावर्ता ताम् । इदमग्निहोत्रस्थालीविशेषणम् । आज्याहुतीनामतिबाहुल्येनैकाज्यस्थाल्यसंभवेऽनेका महत्य आज्यस्थाल्य उपयोक्तव्याः ।

 प्रदर्शितं चास्त्याचार्येण--

"असंभवाद्वा यथाऽश्वमेधे पशुकर्मसु" इत्यनेन सूत्रेण ।

 अन्यो निर्वापो वा कार्यः । आज्यस्थालीगताज्यस्य स्कन्दनेऽप्येषः । प्रायौगिकास्तु संस्कृते स्थालीगत आज्य एव लौकिकमाज्यमानीय तेन


  1. ख. ग. दभावेऽन्य ।