ततो गोकर्णाकृतिना हस्तेन माषपरिमितं जलमादाय-- श्रद्धायां प्राण इत्यादिप्रथमानुवाकमन्त्राणां याज्ञिक्यो देव[१]ता उपनिषदः प्राणादयो यजुः । आत्मनः परमात्मनि संयुक्तत्वभावने विनियोगः-- "ॐ श्रद्धायां प्राणे नि० श्रद्धायामपाने नि० मृतत्वाय" इत्यात्मानं परमात्मनि संयुक्तं भावयित्वा,
अमृतोपस्तरणमसीत्यस्य याज्ञिक्यो देवता उपनिषद उदकं यजुः । उदकपाने विनियोगः--"ॐ अमृतोपस्तरणमासि" इति पुरस्तादुदकं पिबति ।
ततः श्रद्धायां प्राण इति द्वितीयानुवाकमन्त्राणां याज्ञिक्यो देवता उपनिषदः प्राणादयो यजुः । आत्मनि होमे विनियोगः--"ॐ श्रद्धायां प्राणे नि० शिवो मा० प्राणाय स्वाहा" इति तर्जनीमध्यमाङ्गुष्ठैः परिविष्टादन्नाद्धृतप्लुतादेकामाहुतिं मुखे जुहोति ।
"श्रद्धायामपाने०" इति मध्यमानामिकाङ्गुष्ठैस्तथैव द्वितीयाम् । "श्रद्धायां व्या०" इति कनिष्ठिकानामिकाङ्गुष्ठैस्तथैव तृतीयाम् । "श्रद्धायामु०" इति तर्जनीरहिताभिः साङ्गुष्ठाभिः कनिष्ठातर्जन्यङ्गुष्ठैरेव वा तथैव चतुर्थीम् । "श्रद्धाया समा०" इति सर्वाङ्गुलीभिः पञ्चमीम् । त्यागे विकल्पः । अथवा सर्वा आहुतयो मुक्तकनिष्ठिकेन करेण होतव्याः ।
ततः प्रजापतिं मनसा ध्यायंस्तूष्णीं सकृद्भूयो जुहुयात् । अयं च होमोऽन्नरसमविजानता दन्तैः स्पर्शमकुर्वता मौनेनैव कर्तव्यः । अत ऊर्ध्वमनियमो मौनस्य । जीवत्पितृकस्य प्राणाहुत्यूर्ध्वं मौनं नास्त्येव । मौनलोपे विष्णुस्मरणम् ।
ततो भोजनपात्रमाधारोपरि संस्थाप्य दत्तांश्चतुरो बलीन्केनचिन्निष्का[२]शयित्वा, असंभवे तान्प्रच्छाद्य पादौ भूमौ निधाय वामहस्ताङ्गुष्ठतर्जनीमध्यमाभिर्धृतभोजनपात्रः पञ्चार्द्रो मु[३]क्तकेशो भुञ्जीयात्[४] ।
गायत्र्यभ्युक्षितं किंचिदन्नं पात्रे कस्मिंश्चित्प्रदेशे पृथग्निधायान्यदन्नं न गृह्णीयात् । भोजनान्ते तद्भुञ्जीयात् ।
वामहस्तेनान्नं न स्पृशेत् । न पादौ शिरो बस्तिं च स्पृशेत्[५] । पदा भोजन