जीवत्पितृकस्य प्राणाहुतिपर्यन्तमेव पात्रधारणं न तूर्ध्वम् । सर्वेषामप्येतदिति केचित् । यावद्भोजनं पात्रधारणमजीवत्पितृकाणामिति बहवः ।
उदकपानकाले दक्षिणहस्तेन पात्रं धारयन्नुद्धृतोदकपात्रं वामहस्तेनाऽऽदाय दक्षिणमणिबन्धे तत्पात्रं संस्पर्श्य वामहस्तेनैव पिबेत् । केचित्तु वामहस्तेन धारयन्दक्षिणेनैव पिबेदिति वदन्ति ।
ततः सर्वं भुक्तोच्छिष्टमन्नमादाय,--
"रौरवादिनिमग्नानां देहिनामन्नमिच्छताम् । |
इत्युच्छिष्टान्न[१]भाग्भ्य उच्छिष्टमन्नं दत्त्वा,--
"रौरवे पूयनिलये पद्मार्बुदनिवासिनाम् । |
इत्यन्नोपर्युदकं दद्यात् । जीवत्पितृकस्याप्येतदिति केचित् । नेत्यन्ये ।
ततोऽमृतापिधानमसीत्येतस्य याज्ञि० षद उदकं यजुः । उदकपाने विनियोगः-- "ॐ अमृतापिधानमसि" इत्युदकं पीत्वोत्तिष्ठेत् ।
एकपङ्क्त्युपविष्टानां मध्ये यदि कश्चन नास्तिक्यात्प्रमादाद्वा भुञ्जानेषु पूर्वमुत्तिष्ठेत्तदा शिष्टं भोजनपात्रस्थमन्नं परित्यजेत् । संकटेऽग्निना भस्मना दर्भेणोदकेन द्वारव्यवधानेन वा पङ्क्तिभेदः कार्यः ।
भोजनपात्रे यदि लवणं शिष्टं भवेत्तदा तत्पात्रमस्पृशन्वामहस्तेन जलेन प्लावयेत् । यदि न [२]प्लावयेत्तदा प्राणायामत्रयमष्टोत्तरशतं गायत्रीजपश्च । उत्तरापोशनानन्तरं भोजनपात्रस्पर्शे स्नानं प्राणायामश्च ।
ततो भोजनपात्रं [३]निष्काशयित्वा हस्तप्रक्षालनमकुर्वन्नेकवारं गण्डूषमेवाऽऽदौ कृत्वा हस्तौ मुखं च यावल्लेपनिःसरणं तर्जनीरहिताङ्गुलिभिः प्रक्षाल्य लोहितनिःसरणं विना यावद्दन्तलग्नमुच्छिष्टं निर्गच्छति तावन्निष्काश्य षोडशगण्डूषान्कृत्वा मुखं पादौ च प्रक्षाल्य द्विराचम्य भूमिमुपले[४]पयित्वाऽभावे स्वयं विलिप्य पुनर्हस्तपादप्रक्षालनं कृत्वाऽऽचम्य भूमिं संस्पृश्य द्विराचम्य,
प्राणानां ग्रन्थिरित्यस्य याज्ञि० षद आत्मा यजुः । हृदयाभिमर्शने विनियोगः-- "ॐ प्राणानां ग्रन्थि० प्यायस्व" ।इति हृदयमभिमृशति ।