पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६८

पुटमेतत् सुपुष्टितम्
२६४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( चतुर्थदिवसीयोपनयनाङ्गानि )
 

 ततोऽग्निं परिस्तीर्य दर्वीमाज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमेकां समिधं चाऽऽसाद्य पवित्रे कृत्वा प्रोक्षणी: संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं संमृज्याऽऽज्यं संस्कृत्याग्नेः पश्चाद्दर्भेष्वाज्यं दर्वीं च निधायाग्निं मन्त्रैः परिषिच्यालंकृत्य दर्व्याऽऽज्यमादाय, 'ॐ अयाश्चाग्नेऽस्य० भेषज स्वाहा' इत्येकामाहुतिं जुहुयात् । अयसेऽग्नय इदं० ।

 ततः परिस्तरणानि विसृज्य सर्वप्रायश्चित्तं हुत्वोत्तरपरिषेकं कुर्यात् । अस्मिन्पक्षे समिदाधानात्प्रागग्न्यनुगमनेऽपि प्रायश्चित्तहोमानन्तरमेव समिदभ्याधानं कार्यम् । अथवा सर्वप्रायश्चित्तमात्रमत्र नोपवासो नायाश्चाग्न इत्याहुतिः ।

इत्यग्निनाशप्रायश्चित्तम् ।

अथ चतुर्थदिवसीयोपनयनाङ्गानि ।

 आचार्यः प्रातः कृतनित्यक्रियः कृतप्रातःसंध्याग्निकार्योपसंग्रहणाभिवादनेन ब्रह्मचारिणा सह प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य त्रिवृदन्नहोमं वास्तुपतये बलिदानं च पूर्ववत्कृत्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा श्रद्धामेधे प्रीयतामिति वदेत् ।

 ततो ब्रह्मचार्याचम्य प्राणानायम्य व्रतविसर्गार्थं देवतोपस्थानं पूर्ववत्कुर्यात् । तत्र 'तच्छकेयं तन्मे राध्यताम्' इत्येतस्य स्थाने 'तदशकं तन्मेऽराधि' इतिमन्त्रसंनामः । ततस्त्र्यहव्रतं विसृजेत् ।

 तत आचार्यः स्थापितदेवतानां तत्रैव पञ्चोपचारैः पूजनं विधाय तद्वंशपात्रं स्वयं गृहीत्वा गृहीताविघ्नगणपकलशया भार्यया ब्रह्मचारिणा च सह वेदिसमीपमागत्य वेद्यामुपविश्य गणपतिमभ्यर्च्य षोडशोपचारैरावाहितदेवताः पूजयेत् । तत्राभिषेककाले नीराजनतैलाभ्यङ्गसुगन्धिद्रव्यसमर्पणोष्णोदकस्नानादि पूर्ववत् ।

 तत आवाहितदेवताविसर्गोत्तरं पूर्ववन्मही द्यौरित्यादिविधिना पुण्याहादिवाचनं विदध्यात् । तत्रास्य मण्डपोद्वासनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिवाक्यप्रयोगः । श्रद्धामेधे प्रीयेतामिति देवतानिर्देशः ।

 ततः समुद्रज्येष्ठा इत्यभिषेकान्ते कुलपूज्योऽन्यो वा कश्चन मान्यस्ताः शाखा उन्मुच्य तत्सूत्रं कलशवेष्टनसूत्रं च क्षीराभ्यक्तं कृत्वाऽक्षतपूगीफलयुक्तं