पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०

पुटमेतत् सुपुष्टितम्
२६
[दक्षिणामानम्]
भट्टगोपीनाथदीक्षितविरचिता--

चाशीतिगुञ्जात्मकत्वात्किंचिन्न्यूना अष्टादश ढब्बूका भवन्ति । रौप्यकमानेन त्वेकस्या गोर्मूल्यं किंचिन्न्यूनैकयवाधिकगुञ्जाद्वयपरिमितं सुवर्णं भवति । सुवर्णमानेन त्वेकस्या गोर्मूल्यं चत्वारिंशन्माषकपरिमितं सुवर्णं भवति । राजतमानेन त्वेकस्या गोर्मुल्यं राजतचत्वारिंशन्माषपरिमितं रजतं भवति । वराटकमानेन वरमूल्यं विंशतियुक्तशताधिकपञ्चसाहस्री वराटकानां भवति । ताम्रमानेन तु किंचिन्न्यूनषट्त्रिंशढ्ढब्बूका भवन्ति । रौप्यकमानेन तु किंचिन्न्यूनयवद्वयाधिकचतुर्गुञ्जामात्रं सुवर्णं भवति । सुवर्णमानेन तु षोडशमाषात्मकाः पञ्च सुवर्णा भवन्ति । राजतमानेन तु राजताशीतिमाषकपरिमितं रजतं भवति । वराटकमानेन वृषमूल्यं षट्पञ्चाशद्युक्तशताधिकसप्तसाहस्री वराटकानां भवति । ताम्रमानेन तु किंचिन्न्यूनचतुष्पञ्चाशढ्ढब्बूका भवन्ति । रौप्यकमानेन तु किंचिन्न्यूनसप्तगुञ्जापरिमितं सुवर्णं भवति । सुवर्णमानेन तु सार्धसप्तसुवर्णा भवन्ति । राजतमानेन तु विंशतिरजतमाषाधिकशतमाषा रूप्यं भवति । अनडुहि वरापेक्षया द्विगुणं बोध्यम् । वराटकमानेन धेनुमूल्यमष्टशताधिकद्वादशसाहस्री वराटकानां भवति । ताम्रमानेन किंचिन्न्यूननवतिढब्बूका भवन्ति । रौप्यकमानेन यवद्वयाधिकमाषकद्वयं सुवर्णं भवति । सुवर्णमानेन सार्धद्वादश सुवर्णा भवन्ति । राजतमानेन राजतशतद्वयं माषका भवन्ति । वराटकमानेनाश्वमूल्यं शतद्वयाधिकैकोनविंशतिसाहस्री वराटकानां भवति । ताम्रमानेन पञ्च[१]विंशत्यधिकशतं ढब्बूका भवन्ति । रौप्यकमानेन यवत्रयाधिकमाषकत्रयपरिमितं सुवर्णं भवति । सुवर्णमानेन पादोनैकोनविंशतिसुवर्णा भवन्ति । राजतमानेन राजतशतत्रयं माषका भवन्ति । वराटकमानेन हिरण्यमूल्यं सहस्रद्वयं वराटका भवन्ति । ताम्रमानेनाष्टगुञ्जान्यूनचतुर्दशढब्बूका भवन्ति । रौप्यकमानेन किंचिन्न्यूनसार्धपञ्चकमाषप्रमाणं सुवर्णं भवति । सुवर्णमानेन सपादैकत्रिंश [२]न्माषा भवन्ति । राजतमानेन सपादैकत्रिंशद्राजतमाषा भवन्ति । वराटकमानेन वस्त्रमूल्यमशीत्यधिकद्वादशशती वराटकानां भवति । ताम्रमानेन किंचिन्न्यूननवढब्बूका भवन्ति । रौप्यकमानेन किंचिन्न्यूनसर्षपत्रयाधिकगुञ्जामात्रं सुवर्णं भवति । सुवर्णमानेन विंशतिमाषपरिमितं सुवर्णं भवति । राजतमानेन विंशतिराजतमाषपरिमितं रजतं भवति । गोरपेक्षया पादमात्रं छागमूल्यम्[३] । अवावजापेक्षया सार्धमधिकं बोध्यम् । धेन्वपेक्षया क्रमेण पञ्चगुणं दासीमूल्यम् । दासीवन्निष्कमूल्यम् । वराटकमानेन गजमूल्यं चत्वारिंशत्सहस्राधिकलक्षषट्कं वराटकानां भवति । ताम्रमानेन


  1. क. ञ्चत्रिंशदधि ।
  2. क. न्माषाः सवर्णं भवति । रा ।
  3. क. ख. म् । धे ।