पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०२

पुटमेतत् सुपुष्टितम्
२९८
[प्राजापत्यादिकाण्डानामनुक्रमणिका]
भट्टगोपीनाथदीक्षितविरचिता--

नुवाकाः । इमे वा एत इत्यादयस्त्रयोऽनुवाकाः । भूमिर्भूम्नेत्यनुवाकः । देवासुरास्ते देवा विजयं परा वा एष भूमिर्भूम्ना द्यौर्वरिणेत्याहेत्यनुवाकत्रयम् । देवासुरा अग्नीषोमयोरित्यनुवाकः । उप प्रयन्तः संपश्यामीत्यनुवाकौ । मम नामेत्यनुवाकस्ताः संदधामि हविषा घृतेनेत्यन्तः । अयज्ञः संपश्यामि प्रजा अहमित्याहाग्निहोत्रं जुहोतीति त्रयोऽनुवाकाः । युञ्जानः प्रथमं मन इत्यादयः सप्त प्रश्नाः । तत्राऽऽद्यप्रश्नचतुष्टयस्योत्तमानुवाकाञ्जीमूतस्येव यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेर्मन्व इति पञ्चानुवाकांश्च वर्जयेत् । मा नो हि सीज्जनितेत्यनुवाकादूर्ध्वं सशान्तिक आप्यायस्व मदिन्तमेत्यनुवाकः । इयमेत्यनुवाकादूर्ध्वं सशान्तिक ईयुष्टे य इत्यनुवाकः । प्रजापतिर्मनसेत्यनुवाकादूर्ध्वं सशान्तिको ज्योतिष्मतीमित्यनुवाकः । आयुषः प्राणमिन्द्रो दधीच इत्यनुवाकौ । सावित्राणीत्यादयः सप्त प्रश्नाः । तत्र समिद्धो अञ्जन्गायत्री त्रिष्टुब्जगती कस्त्वाऽऽच्छ्यति प्रजापतेरक्षि पवस्व वाजसातय इत्यनुवाकान्, इन्द्राय राज्ञे सूकर इति चतुर्दशानुवाकान्रोहितो धूम्ररोहित इति त्रयोदशानुवाकान्स्तेगान्द ष्टाभ्यामिति षोडशानुवाकांश्च वर्जयेत् । अङ्गिरसो वै सत्रमासतेति प्रश्नः । उदस्थान्नि वा एतस्येत्यनुवाकौ । संज्ञानं लोकोऽसीति प्रश्नौ । ब्रह्म वै चतुर्होतार इत्यादयः पञ्चानुवाकाः । इत्याग्नेयकाण्डम् ।

अथ वैश्वदेवकाण्डम् ।

 अनुमत्यै पुरोडाशमितिसंहितान्तर्गतः प्रश्न उत्तमानुवाकवर्जम् । ऋतमेव परमेष्ठीत्यनुवाकः । ब्राह्मणान्तर्गता अनुमत्यादयस्त्रयः प्रश्नाः । प्रजा वै सत्रमासताग्निर्वाव संवत्सर इत्यनुवाकौ । देवा वै यद्यज्ञेऽकुर्वत तदसुरा अकुर्वत ते सुरा ऊर्ध्वमित्यनुवाकः । वायव्य श्वेतमित्यादयश्चत्वारः प्रश्नाः ।तत्रोत्तमानुवाकान्वर्जयेत् । प्रजापतिरकामयत प्रजाः सृजेयेतीति तृतीयकाण्डम् । तत्र पञ्चप्रश्नानामन्तिमाननुवाकान्वर्जयेत् । इषे त्वेत्यादिरश्मिरसीत्यन्तानां प्रश्नानां क्रमेणोत्तमानुवाका उशन्तस्त्वेत्येतत्पूर्वं युक्ष्वाहीत्यनुवाकश्च । देवस्य त्वेत्यादयः प्रजननप्रश्नशेषा दशानुवाकाः । एकस्मा इत्यादय एकादशानुवाकाः । अर्वाङित्यादयो दशानुवाकाः । मेषस्त्वा पचतैरवत्वित्यादय एकादशानुवाकाः । पृथिव्यै स्वाहेत्यादयश्चतुर्दशानुवाकाः । जीमूतस्य यदक्रन्दो मा नो मित्रो ये वाजिनमग्नेर्मन्व इति पञ्चानुवाकाः । इन्द्राय राज्ञे सूकर इत्यादयश्चतुर्दशानुवाकाः ।रोहितो धूम्ररोहित इत्यादयस्त्रयोदशानुवाकाः । स्तेगान्द ष्टाभ्यामिति षोड