पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३०४

पुटमेतत् सुपुष्टितम्
३००
[दिवाकीर्त्यानि]
भट्टगोपीनाथदीक्षितविरचिता--

 होता चित्तिः स्रुगिति प्रश्नः । प्रवर्ग्यकाण्डं युञ्जते देवा वै सत्रमासतेति प्रश्नद्वयम् । उपनिषदः शीक्षादयस्त्रयः प्रश्नाः । अरुणो भद्रप्रश्नः । आम्नायविधिः स ह वै प्रश्नः । रुद्रो नमस्ते रुद्रेति प्रश्नः । नारायणोऽम्भस्येति प्रश्नः । पित्रियो मेधः परे युवा समिति प्रश्नः । एतत्सर्वमव्रत्येकभक्तब्रह्मचर्यादिनियमरहितः श्रोतुमपि नार्हति कुतस्तस्याध्ययनम् । अरुणश्चाऽऽम्नायविधिश्चारुणाम्नायविधी । तौ काठके परिकीर्तितौ । काठकसंज्ञया समाख्यातावित्यर्थः । होतुप्रवर्ग्यकाण्डमित्यादि पित्रिय इत्यन्तं संज्ञाप्रदर्शनार्थम् । अरण्येऽध्येतव्यत्वादारण्यकत्वम् ।

अथ दिवाकीर्त्यानि ।

"कारीर्यश्चाथ पित्र्याश्च दिवाकीर्त्येति यत्र च ।
रुद्रः संततिरित्येतावनुवाकौ च सात्रिके ॥
होतृविध्यवसाने च अनुवाकचतुष्टयम् ।
सूक्तेषु सूक्तं यत्सौर्यं मेधो यश्चैष पित्रियः ॥
काठकानि च सर्वाणि सर्वाण्यारण्यकानि च ।
दिवाकीर्त्यानि शाखायामेतावन्तीति धारणा" इति ॥

 कारीर्यो मारुतमसि मरुतामिति चत्वारोऽनुवाकाः । पित्र्याः सोमाय पितृमते, उशन्तस्त्वा हवामह उशन्तः, इन्द्रो वृत्र हत्वा, वैश्वदेवेन वै प्रजापतिः प्रजा असृजत ता वरुणप्रघासैः, अग्नये देवेभ्यः पितृभ्यः, सुरावन्तं बर्हिषद सुवीरम्, उशन्तस्त्वा हवामह आ नो अग्ने सुकेतुना, इत्येतेऽनुवाकाः । दिवाकीर्त्येति पदं यस्मिन्ननुवाके स चासावादित्योऽस्मिन्निति । रुद्रो नमस्त इति प्रश्नः । सात्रिकेऽनुवाकचतुष्टये संततिरिति द्वावनुवाकौ दिवाकीर्त्यावित्यर्थः । सात्रिके सत्रसंबन्धिनि प्रकरण इत्यर्थः । दिवाकीर्त्येति यत्र चेत्यनेनैव सिद्धे संततिरित्यादिवचनं ब्राह्मणस्य परायातत्वाद्दिवाकीर्त्येति यत्र चेत्यस्याप्राप्तिराशङ्किता स्यात्सा मा भूदित्येतदर्थम् । होतृविधिः प्रजापतिरकामयत प्रजाः सृजेयेति स एतं दशहोतारमिति प्रश्नः । ब्रह्मवादिन इत्यस्य प्रश्नस्यानुवाकसप्तकं होतृविधिः । तस्यावसानं विराम: समाप्तिः । तस्यां सत्यां यदनुवाकचतुष्टयं प्रजापतिः सोऽन्तर्वानित्यादिकं तच्च दिवाकीर्त्यमित्यर्थः ।

"गर्भादयोऽनुवाका ये तानन्ह्येव पठेद्द्विजः" इति [१]


  1. ख. ति । तृती ।