पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३१

पुटमेतत् सुपुष्टितम्
[गणेशपूजावश्यकता]
२७
संस्काररत्नमाला ।
(पूजाया द्वैविध्यम्)
 

स्थूलदृशा पञ्चशत्यधिकसहस्रचतुष्टयं ढब्बूका भवन्ति । रौप्यकमानेन स्थूलदृशाऽशीत्यधिकपञ्चशतगुञ्जापरिमितं सुवर्णं भवति । सुवर्णमानेन पञ्चशतमाषपरिमितं सुवर्णं भवति । रजतमानेन पञ्चशतराजतमाषपरिमितं रजतम् । धेन्वपेक्षया क्रमेणार्धं नरवाह्ययानस्य मूल्यम् । अनडुद्वद्गृहस्य मूल्यम् । एतन्मूलं गोपालकृतमूल्याध्यायविवरणे द्रष्टव्यम् । नित्येषु कर्मसु मूल्यस्याप्यभावे मन्थौदनकन्दमूलफलादीनि पूर्वपूर्वालाभे देयानि । काम्येषु कर्मसु तु यथोक्तवस्तून्येव न प्रतिनिधिः । आरब्धेष्वेतेषु यथोक्तवस्त्वलाभेऽस्त्येव प्रतिनिधिः ।

इति संक्षेपेण प्रतिनिधिनिरूपणम् ।


कर्मादौ गणेशपूजनस्याऽऽवश्यकता ।

 अथ गणपतिपूजनम् । तच्च सर्वकर्मस्वादौ कर्तव्यं, निर्विघ्नार्थत्वात् 'न ऋते त्वत्क्रियते' इति मन्त्रलिङ्गात् ।

"नार्चितो हि गणाध्यक्षो यज्ञादौ यत्सुरोत्तमाः ।
तस्माद्विघ्नं समुत्पन्नं तत्क्रोधजमिदं खलु" इति पद्मपुराणाच्च ।

 अत्र पूजा द्विविधा, षोडशोपचारा पञ्चोपचारा वा । तत्र प्रतिष्ठितप्रतिमायामावाहनविसर्जनयोरभावेन चतुर्दशोपचारैव पूजा । अथवाऽऽवाहनविसर्जनयोः स्थाने मन्त्रपुष्पाञ्जलिदानं तेन षोडशोपचारा भवन्ति । नूतनप्रतिमायां तु षोडशोपचारैव । आवाहनाभावे प्रतिमादौ पूजाया असंभवात् । क्वचित्तु वचनाद्विसर्जनमुत्कृष्यते । आग्निमारुतादूर्ध्वमनूयाजैश्चरन्तीतिवत् । यथा ग्रहयज्ञादौ--

"एवं समग्रं निष्पाद्य सर्वदेवान्विसर्जयेत्" ॥

 इति मात्स्ये विधानादन्ते विसर्जनम् । ईदृश्येव चेयं पूजा वचनत्याजितकिंचित्पदार्था पिण्डरहितसंक्रान्तिश्राद्धवत्स्वतन्त्रापि । पञ्चोपचारपूजा तु यत्र स्थापितदेवानां विसर्जनात्प्राक्पूजोक्ता तद्विषया ।