पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३२१

पुटमेतत् सुपुष्टितम्
[अध्येतृधर्माः]
३१७
संस्काररत्नमाला ।

 प्राणाः शीर्षण्यानि चक्षुरादीनीन्द्रियाणि तेषामुपस्पर्शनं दर्भैर्मार्जनमिति हरदत्तः ।

 अध्ययनान्तेऽप्योंकारो वाच्यः ।

"प्रणवं ब्राह्मणः कुर्यादादावन्ते च सर्वदा" इति मनूक्तेः ।

 ब्रह्मणो वेदस्य ।

 भूमिं स्पृष्ट्वा विरामः कार्यः । तदुक्तं स्मृत्यन्तरे--

"ओंकारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् ।
ओंकारं च पुनः कृत्वा भूमिं स्पृष्ट्वा समापयेत्" इति ।

 अध्ययनमिति शेषः ।

 अध्ययनसमाप्तावप्युपसंग्रहणं कर्तव्यं शिष्येण ब्रह्मारम्भावसानयोर्गुरोः पादोपसंग्रहणं कार्यमिति विष्णूक्तेः ।

 ([१]व्यासशिक्षायाम्--

"काण्डप्रश्नानुवाकान्ते दशाष्टौ पञ्च मात्रिकाः ।
ग्रन्थानां तु समाप्तौ तत्त्रिगुणः काल उच्यते" इति ।


  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तकेऽन्यथा ग्रन्थः स यथा--"आरण्यकाध्ययने विशेषः । प्रवर्ग्यसूत्रे--"अध्येष्यमाणो मदन्तीरुपस्पृश्य प्रथमानुवाकेन शान्तिं कृत्वाऽधीयीताधीत्य चोत्तमेनैवं कर्मसु यत्र क्व चाशान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत न प्रवर्ग्यायोपनिष्क्रम्याप्रविश्य प्राममन्यदधीयीत" इति । भद्रप्रपाठकाध्ययने विशेष उक्तः श्रुतौ--"प्रवर्ग्यवदादेशः । अरुणाः काण्डऋषयः । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा । महानाम्नीभिरुदक स स्पर्श्य । तमाचार्यों दद्यात् । शिवा नः शंतमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गम् । धेनुर्दक्षिणा । क सं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एव स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति । तपस्वी पुण्यो भवति" इति । आदिश्यते विधीयत इत्यादेशोऽनुष्ठेयोऽर्थः । स च प्रवर्ग्यवदत्रावगन्तव्यः । प्रवर्ग्याध्ययनादौ ये धर्मास्तेऽत्राप्यनुष्ठेयाः । ते च प्रवर्ग्यधर्माः सूत्रकृता सूत्रिताः--"संवत्सरमेतद्व्रतं चरेदेतस्मिन्संवत्सरेऽधीयीत यद्येतस्मिन्संवत्सरे नाधीयीत यावदध्ययनमेतद्व्रतं चरेत्सवत्सरे पर्यवेते खिलेऽच्छदिर्दर्शेऽग्निषूपसमाधाय संपरिस्तीर्य मदन्तीरुपस्पृश्य" इत्यादयः । तानेतान्धर्मानाचरेत् । अरुणाख्या अत्र काण्डऋषयः । तेऽपि होतव्या इत्यर्थः । अयं होमो व्रताङ्गम् । सोऽयमारुणकेतुकाख्यो ग्रन्थोऽरण्य एवाध्येतव्यः, न तु ग्रामे । अध्ययनोपक्रमे शान्त्यर्थ भद्रं कर्णेभिरिति द्वे ऋचौ जपेत् । आपमापामित्येताभिर्महानाम्नीभिर्ऋग्भिरध्येतारं माणवकमुदकं स्पर्शयेत् । ततस्तं माणवकमाचार्यों दद्यात् । व्रताय नियुञ्जीत । शिवा न इति मन्त्रेणौषधीः स्पृशेत् । सुमृडीका सरस्वतीतिमन्त्रेण भूमिं स्पृशेत् । यथाऽध्ययनस्योपक्रमे सर्वमेतदनुष्ठितमेवमध्ययनस्यावसानेऽपि सर्वमेतदनुतिष्ठेत् । स्वाध्ययनसमाप्तावाचार्याय धेनुर्दक्षिणा देया । भोजनार्थं कांस्यपात्रं देयम् । प्रावरणार्थं क्षौमं वस्त्रं देयम् । तदशक्तावन्यत्कार्पासमयं शुक्लवस्त्रं देयम् । अत्यन्तमशक्तौ यथाशक्ति किमपि देयम् । एवमुक्तेनाध्ययनधर्मेण युक्तः सन्नरण्ये गुरुमुखाद्ग्रन्थमधीयीत । एवमधीयानो व्रतनियमानुष्ठानात्तपोयुक्तो भवति । अभ्यासोऽयं मङ्गल इति व्याख्यातं विद्यारण्यश्रीपादैः । अन्यदप्याह" इति ।