पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३३

पुटमेतत् सुपुष्टितम्
[स्वस्तिवाचनस्यावश्यकता]
२९
संस्काररत्नमाला ।
(वर्णतो विधिविशेषः)
 

वृद्धिश्राद्धं ततः स्वस्तिवाचनमित्येतावतैव सिद्धे पुनः कर्मादावित्युक्तिर्वृद्धिश्राद्धसहितकर्मण आदौ स्वस्तिवाचनप्राप्त्यर्था । तेन पूर्वं स्वस्तिवाचनमनन्तरं वृद्धिश्राद्धमित्येवानुष्ठानक्रम इत्याहुः । बौधायनेन सर्वत्र नान्दीश्राद्धस्य संस्कारदिनात्पूर्वेद्युरनुष्ठानमुक्तम् । गृह्यपरिशिष्टे तु-- "महत्सु पूर्वेद्युस्तदहरल्पेषु" इत्येवं व्यवस्थोक्ता । महत्स्वनेकदिनसाध्येषु । अल्पेष्वेतद्भिन्नेषु । अन्यान्यपि स्वस्तिवाचननिमित्तानि संग्रह उक्तानि--

"पुण्येऽहनि तु संप्राप्ते विवाहे चौलके तथा ।

 चौलके चौले । स्वार्थे कप्रत्ययः ।

"व्रतबन्धे च यज्ञादौ तथा जननकर्मणि ।
गृहारम्भे धनप्राप्तौ तीर्थाभिगमने तथा ।
गृहप्रवेशने चैव ग्रामस्याभिनिवेशने ।
नवग्रहमखे शान्तावद्भुतानां तथैव च ।
गजबन्धे तुरंगाणां दासादीनां च संग्रहे ।
धर्मकर्मसु सर्वेषु प्रारम्भे स्वस्तिवाचनम्" इति ।

 विश्वप्रकाशे--

"उपाकर्मोत्सर्जनयोः श्रौतानां कर्मणां तथा ।
प्रथमानुष्ठितावेव स्वस्तिवाचनमिष्यते" इति ।

 उपाकर्मोत्सर्जनग्रहणं नित्यानां श्रवणाकर्माग्रहायणीस्थालीपाकादीनामुपलक्षणम् । अत्र वर्णानुसारेण विधिविशेषमाह यमः--

"पुण्याहवाचनं सर्वं ब्राह्मणस्य विधीयते ।
तदेव च निरोंकारं कुर्यात्क्षत्रियवैश्ययोः" इति ॥

 सर्वमोंकारसहितम् । निरोंकारमोंकाररहितम् ।उचैरोंकाररहितमिति केचित् ।

 संग्रहे--

"शुभे कर्मणि पुण्याहवाचने कलशद्वयम् ।
स्थापयेदशुभे त्वेकमिति यज्ञविदो विदुः" इति ।

 अत्र स्थापयेदितिवचनात्स्थापनविषय एवाशुभसंबन्धिता । तेन शुभकर्मसंबन्धिपुण्याहवाचने बौधायनोक्तरीत्या कलशैकत्वेऽपि न क्षतिः । तत्र स्थापनाभावात् ।