पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७३

पुटमेतत् सुपुष्टितम्
[समावर्तनसंस्कारः]
३६९
संस्काररत्नमाला ।

 अत एवोक्तं संग्रहे--

"तेनोक्तं च तथा कृत्वा स्नानं शिष्यः समाचरेत् ।
अलमर्थेन मे वत्स त्वद्गुणैरस्मि तोषितः ।
गृहान्गच्छानुजानामीत्यनुज्ञातोऽथवाऽऽचरेत्" इति ॥

 तेनोक्तं गुरुणोक्तम् । एतद्दानं गुरुप्रीत्यर्थं न विद्यानिष्क्रयः । वेदविद्यार्हस्य मूल्यस्यासंभवात् । तथा च च्छन्दोगश्रुतिः--" यद्यप्यस्मादि[१]ळामद्भिः परिगृहीतामन्नेन पूर्णां दद्यादेतदेव ततो भूयः" इति । इळा[२] पृथिवी । एतद्विद्याग्रहणम् ।

 तापनीयश्रुतिरपि--

"सप्तद्वीपवती भूमिर्दक्षिणार्थं न कल्पते" इति ।

 माधवीये हारीतोऽपि--

"एकमप्यक्षरं यस्तु गुरुः शिष्ये नियोजयेत् ।
पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वाऽप्यनृणी भवेत्" इति ॥

आहिताग्निश्चेद्गुरुः "यद्यश्वं प्रतिगृह्णीयात्तदा निष्क्रयस्य षष्ठांशं द्वादशांशं वा ब्राह्मणाय दत्त्वा यावतोऽश्वान्प्रतिगृह्णीयात्तावतो वारुणान् चतुष्कपालान्निर्वपेत्" इतिश्रुतिविहितामश्वप्रतिग्रहेष्टिं कुर्यात् ।

 गृह्याग्निमांस्तु तत्स्थाने स्थालीपाकान्कुर्यात्--

"अश्वप्रतिग्रहं कृत्वा चरेच्चान्द्रायणत्रयम् ।
लक्षत्रयं वा गायत्र्या जपेद्विद्वान्समाहितः ॥
त्रिगुणं वाचयेद्वेदं शतं विप्रांश्च भोजयेत्"

 इत्यरुणस्मृत्युक्तस्य शक्तौ सत्यां समुच्चयः । दातुरियमिष्टिरिति मीमांसकमतं तु न सत्याषाढसूत्रानुसारिणामिष्टम् । "ऋत्विजोऽश्वप्रतिग्रहे वारुणी" इति काम्येष्टिप्रकरण ऋत्विज एव तस्या विधानात् । ऋत्विज इति षष्ठ्येकवचनम् । एकत्वमन्त्राविवक्षितमुद्देश्यगतत्वात् । ग्रहं संमार्ष्टीतिवत् ।

 वेदाध्ययनोत्तरं तदर्थमधिगम्यैव समावर्तनं कर्तव्यम् ।

"वेदान्वेदांस्तथा वेदौ वेदं वाऽपि समाहितः ।
अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः" इति कौर्मोक्तेः ।

 प्रथमं वेदानितिवचनं चतुष्ट्वाभिप्रायं, द्वितीयं त्रित्वाभिप्रायम् । अर्थमधिगम्यार्थं ज्ञात्वेत्यर्थः ।


४७
 
  1. ख. घ. ङ. दिलाम ।
  2. ख. ङ. इला ।