पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८२

पुटमेतत् सुपुष्टितम्
३७८
[समावर्तनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता-
(रथाश्वयोरुपर्यारोहणम् )
 

वैधत्वान्न प्रवर्तते प्रयाणकालिकादर्शावेक्षणवत् । देवस्य त्वेत्यस्य मन्त्रस्य वामदेवः प्रजापतिर्वा सविता यजुः । वैणवदण्डप्रतिग्रहणे विनियोगः । 'ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि' इत्यासादितं वैणवं दण्डं प्रतिगृह्णाति । अर्थादन्यो यः कश्चन दण्डप्रदाता । 'ॐ इन्द्रस्य वज्रोऽस्यश्विनौ मा पातम्' [ इति ] सकृन्मन्त्रमुक्त्वा तमूर्ध्वं दण्डं सोदकेन हस्तेन त्रिरुन्मार्ष्टि । उच्छब्देनैवोर्ध्वमार्जनसिद्धौ पुनरूर्ध्वग्रहणं दण्डविशेषणार्थम् । एवं चोर्ध्वं दण्डं धृत्वोर्ध्वं मार्ष्टीत्यर्थः सिद्धो भवति । सोदकेन हस्तेनोन्मार्जनं तु 'ॐ विष्णोर्मनसा पूते स्थ इत्यद्भिरुन्मार्ष्टि' इत्येतत्सूत्रेऽद्भिरिति विधानं सर्वत्रोन्मार्जनमेवोदकैरनुमार्जनादिकं तु केवलेन हस्तेनेति वैजयन्तीकृतव्याख्यानात् । पवित्रयोरनुमार्जनं तु वचनादद्भिः ।

 ततः 'ॐ वेगवेजयास्मद्द्विषतस्तस्करान्सरीसृपान्श्वापदान्रक्षा सि पिशाचापौरुषेयाद्भयान्नो दण्ड रक्ष विश्वस्माद्भयाद्रक्ष सर्वतो जहि तस्कराननग्नः सर्ववृक्षेषु जायसे त्व सपत्नहा जहि शत्रुगणान्सर्वान्समन्तं मघवानिव' [ इति ] सकृन्मन्त्रमुक्त्वा शिरस उपरि प्रदक्षिणं दण्डं त्रिर्भ्रामयति । 'ॐ प्रतिष्ठे स्थो देवते मा मा संताप्तम् [ इति ] उपविष्ट एवोपानहौ युगपदध्यवरोहति । सकृदेव मन्त्रो द्विवचनलिङ्गात् । युगपदध्यवरोहणासंभवे मन्त्रावृत्तिरनायत्या । द्विवचनं तूपरवबहुत्ववद्यथाकथंचिन्नेयम् । अत्रापि सकृदेव वा मन्त्रः । 'ॐ प्रजापतेः शरणमसि ब्रह्मणश्छदिः' इति च्छत्रं प्रतिगृह्णाति । अत्राप्यर्थादन्यो यः कश्चन प्रदाता । 'ॐ यो मे दण्डः परापतद्विहायसोऽधि भूम्याम् । इमं तं पुनराददेऽयमायुषे च बलाय च' इति दण्डं पुनरादत्ते यदि गृहीतो हस्तात्पतेत् । इदं च दण्डधारणं यावज्जीवं मधुपर्कसमाप्त्यन्तं वाऽऽवश्यकम् ।

 अथोपक्लृप्तमन्येनाऽऽनीतं रथमश्वं हस्तिनं वाऽऽरुह्य ग्रामं प्रविशति ।

तत्र--'ॐ रथंतरमसि वामदेव्यममि बृहदम्यङ्कौ न्यङ्कावभितो रथं यौ ध्वान्तं वाताग्रमनुसंचरन्तौ दूरेहेतिरिन्द्रियान्पतत्री ते नोऽग्नयः पप्रयः पारयन्तु । अयं वामश्विना रथो मा दुःखे मा सुखे रिषत् । अरिष्टः स्वस्ति गच्छतु विविघ्नन्नभिदासतः । इह धृतिरिह विधृतिरिह रमताम्" इति रथारोहणमन्त्रः ।
"ॐ अश्वोऽसि हयोऽसि मयोऽस्यत्योऽसि नरोऽस्यर्वाऽसि सप्तिरसि वाज्यसि वृषाऽसि नृमणा असि ययुर्नामासि" ।

इत्येकादशभिरश्वनामात्मकैर्मन्त्रैरश्वारोहणम् ।