पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४०

पुटमेतत् सुपुष्टितम्
३६
[पुण्याहवाचनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

 "कलशद्वयेऽपि वरुणावाहनमिति केचित्" इति प्रयोगदर्पणे । ततस्तत्रैव देवता आवाहयेत् । "कलशस्य मुखे विष्णुः० सर्वे समुद्राः० दुरितक्षयकारकाः । इत्यावाह्य संपूज्याक्षतानुत्तरकलशे प्रक्षिपेत् "मातृदेवो भव । पितृदेवो भव । आचार्यदेवो भव । अतिथिदेवो भव" इति ।

 कलशद्वयेऽपि वरुणावाहनपक्षे कलशस्य मुखे विष्णुरित्येतस्याऽऽवृत्तिः । ततोऽवनिकृतजानुमण्डलः कमलमुकुलसदृशमञ्जलिं शिरस्याधाय दक्षिणेन पाणिना सुवर्णपूर्णकलशं धारयित्वाऽऽशिषः प्रार्थयेत् । एताः सत्या आशिषः सन्तु । दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च । तेनाऽऽयुष्प्रमाणेन पुण्याहं दीर्घमायुरस्तु, इति । विप्राः सन्त्वस्त्विति यथायोग्यं प्रत्युत्तरं दद्युः ।

 ततः कर्ता शिवा आपः सन्तु । सौमनस्यमस्तु । अक्षतं चारिष्टं चास्तु । गन्धाः पान्तु, सौमङ्गल्यं चास्तु, अक्षताः पान्तु । आयुष्यमस्तु । पुष्पाणि पान्तु, [१]सौश्रियमस्तु । ताम्बूलानि पान्तु, ऐश्वर्यमस्तु । दक्षिणाः पान्तु, बहुदेयं चास्तु । दीर्घमायुः श्रेयः शान्तिः पुष्टिस्तुष्टिश्चास्तु । श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं चाऽऽयुष्यं चास्तु । इति वाक्यानि पठेत् । तत्राऽऽद्यवाक्यत्रयान्त उदकं विप्रहस्तेषु दत्त्वा द्वयोर्द्वयोर्वाक्ययोरन्ते तत्तल्लिङ्गानुसारेण तं तमुपचारं दत्त्वा दीर्घमायुरिति वाक्यद्वयेन विप्रान्प्रार्थयेदिति संप्रदायः । विप्राः पान्त्वस्त्विति यथायोग्यं प्रत्युत्तरं दद्युः । अथवा शिवा आपः सन्तु । गन्धाः पान्तु । अक्षताः पान्तु । पुष्पाणि पान्तु । ताम्बूलानि पान्तु । दक्षिणाः पान्त्वित्येतैर्वाक्यैरुदकग[२]न्धव्रीहिमिश्राक्षतपुष्पतांबूलदक्षिणाभिः क्रमेण विप्रान्पूजयेत्[३] । व्रीह्यभावे केवला वाऽक्षताः । ततो विप्रा [४]अवशिष्टानि वाक्यानि तत्तदनन्तरं क्रमेण प्रतिब्रूयुः ।

 ततः कर्ता यं कृत्वा सर्ववेदयज्ञक्रियाकरणकारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोंकारमादिं कृत्वा, ऋग्यजुःसामाशीर्वचनं बह्वृषिमतं संविज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्य इति वदेत् । वाच्यतामिति विप्राः ।

 ततः कर्ता--"भद्रं कर्णेभिः० यदायुः । द्रविणोदा० दीर्घमायुः । सविता पश्चा० दीर्घमायुः । नवो नवो भवति० दीर्घमायुः । उच्चा दिवि० प्रतिरन्त आयुः ।


  1. सौशन्यमिति क. पुस्तके बहिर्लिखितपाठः ।
  2. क. ख. गन्धाक्ष ।
  3. क ख. त् । वि ।
  4. ग. अविशि ।