पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४२३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४१९
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः )
 

त्यथ वैन्याः पार्थास्तेषां त्र्यार्षेयो भार्गववैन्यपार्थेति पृ[१]थवद्वेनव-
द्भृगुवदित्यथ गार्त्समदाः शुनकास्तेषामेकार्षेयो गार्त्समदेति
होता गृत्समदवदित्यध्वर्युरथ वाघ्र्यश्वा मित्रयुवस्तेषामेकार्षेयो
वाघ्र्यश्वेति होता वघ्र्यश्ववदित्यध्वर्युः" इति ।

 एवकार इतरेषां व्यावृत्त्यर्थः । अग्र आदौ व्याख्यास्यामो वक्ष्यामः प्राधान्यादिति शेषः । भृगोः प्राधान्यं तु 'महर्षीणां भृगुरहम्' इति भगवद्वाक्यान्मोक्षधर्मेषु भृगोर्वासुदेवांशताश्रवणादाधानमन्त्रेषु भृगूणामेवाऽऽदौ पार्थक्येन मन्त्रकथनाच्च ।

 अथवा, एवकारोऽग्रशब्देनान्वेति । अग्र आदावेव ये भृगुत्वं प्राप्ता भृगवस्तान्वक्ष्यामः, न द्व्यामुष्यायणत्वेन पश्चाद्भृगुत्वमापन्नानिति । द्व्यामुष्यायणानामुत्तरत्र वक्ष्यमाणत्वात् ।

 जामदग्न्या वत्सा इत्यत्र वत्सानां जामदग्न्या इति विशेषणमजामदग्न्यवत्सनिराकरणार्थं पञ्चावत्तित्वप्राप्त्यर्थं जामदग्न्याप्रीप्राप्त्यर्थं च । तेषां जामदग्न्यवत्सानां पञ्चार्षेयः प्रवरः, भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । अयं च होतुरमुतोऽर्वाञ्चो होतेतिवचनात् । अमुतो मूलभूतादृषेरारभ्यार्वाञ्चोऽर्वाग्जातान्मन्त्रदृशः । क्रमेण तदपत्यसंबन्धेन प्रार्थयते तमग्निमित्यर्थः । जमदग्निवदुर्ववदप्नवानवच्च्यवनवद्भृगुवदित्ययं प्रवरोऽध्वर्योरत ऊर्ध्वान्मन्त्रकृतोऽध्वर्युर्वृणीत इतिवचनात् । अतो यजमानादूर्ध्वान्मन्त्रदृग्भिरव्यवहितानां मूलभूतान्दृष्टक्रमेण संकीर्त्य तद्वत्तद्वदितिसादृश्यसंबन्धेनाग्निं वृणीते प्रार्थयत इत्यर्थः । एष एव प्रवरक्रमविशेषो होतुरध्वर्योश्चाऽऽध्यायपरिसमाप्तेः सर्वत्रोपदेष्टव्यः । त्र्यार्षेयमु हैके ब्रुवत इति शेषः । त्र्यार्षेयं प्रवरमेक आचार्या ब्रुवत इत्यर्थः । उ हेतिनिपातोऽवधारणार्थो वाक्यालंकारार्थो वा । तं प्रवरं दर्शयति-- भार्गवौर्वजामदग्न्येति जमदग्निवदुर्ववद्भृगुवदितीति । एनमेव प्रवरमन्येष्वतिदिशति-- एष एवाविकृतो जामाल्यैतिशायनेत्यादिना प्राचीनयोग्याना मित्यन्तेन सूत्रेण । एषोऽनन्तरोक्तः पञ्चार्षेयस्त्र्यार्षेयो वा जामाल्यादीनां नवानां भवतीत्यर्थः ।

 अथाऽऽर्ष्टिषेणानामित्यत्राथशब्दः पृथगयं गण इतिज्ञापनार्थः । एवं सर्वत्र । अन्यद्गतार्थम् । अथ वीतहव्या इत्यारभ्य पृथवद्वेनवद्भृगुवदित्यन्तं सूत्रं स्पष्टार्थम् ।


  1. ग. पृथुव ।