पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४२९
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, भृगवः(१))
 

र्भेह्रिः किरुषः स्तन्वत औलन्धिर्वायर्गिरायणिः श्येन[१]यागतिर्नै[२]कट्यिः शौककर्णिर्निडायनः ।

इत्येते वत्साः ।

 तत्र[३] ये जामजग्न्या वत्सास्तेषां पञ्च प्रवराः, भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । त्रयो वा, भार्गवौर्वजामदग्न्येति ।

 ये त्वजामदग्न्या वत्सास्तेषां त्रयः, भार्गवच्यावनाप्नवानेति ।

अथ जामद[४]ग्न्या बिदाः ।

 बिदाः शैला अवटाः प्राचीनयोग्या अभयदानाः काण्डरथा वैनभृतः पुलस्त्य आर्कायणो नाष्ट्रायणस्ताम्रायणः क्रौञ्चायणः कामलः पौलस्त्यो वेदभृदभयजातास्त्रैकायना भ्रा[५]जा भ्रादन्त्याः ष्टैकायना भृञ्जायनाः ।

इति बिदाः ।

 तेषां पञ्च प्रवराः । भार्गवच्यावनाप्नवानौर्ववैदेति । त्रयो वा, भार्गवौर्वजामदग्न्येति ।

 अजामदग्न्यविदानां भार्गवौर्वजामदग्न्येति त्रय इति कात्यायनः । वत्सानां भार्गवच्यावनाप्नवानेति त्रय इत्यपि तेनैवोक्तम् । पञ्चप्रवरेषु बिदेषु जमदग्नेः सत्तयाऽनुवृत्तिः ।

अथ वैन्याः ।

 वैन्याः पार्था बाष्कलाः शै[६]ताः ।

इति वैन्याः ।

 श्यैता इति केचित् । तेषां त्रयः, भार्गववैन्यपार्थेति ।


अथ वीतहव्याः ।

 वीतहव्या या[७]स्का मौनो मौको वाधुलो वर्षपुष्पो भागलेपो भागविज्ञेयो दुर्दिनो भास्करो दैवजायनो वार्कलेयो मा[८]ध्यमेया वासयः कौशाम्बेयाः क्रो[९]विल्याः सत्यकयाश्चित्रसेना भागुरिश्छपो माधूला मौसला जीवन्तायना अर्धलेखयो वृकाश्मकयो मदोकधो वारेया गै[१०]रिक्षिता[११] दैर्घचित्ताः पञ्चालवाः पौ[१२]ष्पावता गोदायनाश्चण्डमोदनो भागलिर्भागवित्तिः पिलि: खलिः काश्य[१३]पिः समदा



  1. ड. नषाग ।
  2. क. र्नैकृट्यि. ।
  3. ड. त्र जा ।
  4. क. दग्न्यबि ।
  5. ड. भ्राजः ।
  6. क. ख. ग श्यैता ।
  7. ख. यस्काः ।
  8. मार्ध्यमे ।
  9. ङ. क्रौविल्याः ।
  10. ङ. गौरिक्षिताः ।
  11. ड. ता दीर्घ ।
  12. ख. ग. पौष्यव । ङ. पौष्णाव ।
  13. ड. श्यपिवलिपिः ।