पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४१

पुटमेतत् सुपुष्टितम्
[विवाहः]
४३७
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, केवलागिरसः)
 

[ अथ कण्वाः । ]

 कण्वा औपमर्कटायनाः बाष्कलाः पौला हस्तिनो मौञ्जिभाजयो मौनिगन्धा[१] वीजिवाजयो वाजश्र[२]वाश्वा भारुण्डा भ[३]रुण्डा र[४]मण्यः स[५]ना मर्कटा ग[६]र्हभाः प्राकासराः शाकटायनाः गोदाय[७]नाः शानायना रामायणा शौवेरि[८]णो नारीणा आर्यादयश्चतुराः श्यामायनयः ।

इति कण्वाः ।

 तेषां त्रयः । आङ्गिरसाजमीढकाण्वेति । आङ्गिरसघोरकाण्वेति वा ।

[ अथ रथीतराः । ]

 रथीतरा हस्तिदाः सिकाह्वायना नैतिरक्षयो मैलयो भिलीभाय[९]नाः सावहवा भै[१०]क्षवाहा हेमगवा वैरूव्या विरूपा आङ्गुष्ठा अष्टादंष्ट्राः पृषदश्वाः ।

[११]इति रथीतराः ।

 तेषां त्रयः । आङ्गिरसवैरूपपार्षदश्वेति । आङ्गिरसवैरूपराथीतरेति वा । अष्टादंष्ट्रवैरूपपार्षदश्वेति वा । अन्त्ययोर्व्यत्ययो वा ।

 विष्णुवृद्धाः शठा मषणा मन्द्रणा भद्रणा भद्रयो[१२] बादरायणा वात्सप्रायणा सात्यकयः सात्यकायना नितुन्दिनः स्तुत्या भारुण्या वै[१३]होढा देवस्थानयः क्षत्त्रिणाश्छत्रिणा हो[१४]त्रीणाः पुत्रिणा जतृणा वत्रिणाः कर्तृणाः शाम्बरायणा औपमीतय औपगवयः कुशमिवद्वत्सावनाः सावनार्या वाच्यायनिनः का[१५]यम्भायनिनः ।

इत्येते विष्णुवृद्धाः ।

 तेषां त्रयः । आङ्गिरसपौरुकुत्स्य[१६]त्रासदस्येति । त्रासदस्यवेति केचित् ।

 मुद्गलाः सात्यमुग्रयो हिरण्यस्तम्बयो हंसजिह्वा देवजिह्वा आलवाला[१७] बिडालद[१८]योऽग्न्यादयः सुनयश्छत्रहयास्तारणाः कार्यभासिता हिरण्याक्षा दीर्घजङ्घा हिरण्यगर्भा भिन्दयः ।

इति मुद्गलाः ।



  1. ग. ड. न्धा बीजि ।
  2. ड. श्रवसो भा ।
  3. ड. भरुडाः ।
  4. ड. रमणीः । ग. रमण्याः ।
  5. ङ. सणाः ।
  6. ड. गर्दभाः ।
  7. ख. यना रा ।
  8. ख. रिणा ना । ङ. रिणा आ ।
  9. ख. यना भै ।
  10. ख. क्षवीवा ।
  11. ड. इत्येते ।
  12. ख. ग. यो वाद ।
  13. ख. ड. वैहोठा ।
  14. ग. ड. होत्रिणाः ।
  15. ड. कालम्भा ।
  16. अत्र यकाररहितोऽपि पाठो बहिर्लिखितोऽस्ति क. पुस्तके ।
  17. ग. ला बिडा ।
  18. ड. दय आग्न्या ।