पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४८

पुटमेतत् सुपुष्टितम्
४४४
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, वसिष्ठाः(७))
 

खार्वभाय[१]नो गाङ्गायना वात्सभालयो गोभिला वेदायना वात्स्यायना बहूदरयो भागुरयः खादन्तीमुखा हिरण्यबाहवो नै[२]दाहा गोमूत्रा वाक्यशठा जानन्धरयो धन्वन्तरय एकखण्डा गर्दभीमुखा[३] आजवंशास्तृणबिन्दवः कोकिलाः पैप्पलादयो जलं[४]धवा गौ[५]शिलाः शत्रुगायना जीनाः पिप्पलाः शि[६]जाः केशिला मुञ्जमयूराः पैदानवाः कौवलयः कौ[७]रण्डजा उत्तराः सुजातपूराश्चेरलाः सुकेतवः कुहका बहु[८]मिण्डा हैपुटा व[९]टायना महाकोरलयः कु[१०]हलासो मं[११]हता धवलाः कराताः प[१२]र्यश्वा भुजाजलयः परिवारिणः ।

इति शण्डिलाः ।

 तेषां द्वौ[१३], दैवलासितेति । त्रयो वा । काश्यपदैवलासितेति । काश्पपावत्सारशाण्डिल्येति वा । अन्त्यस्थाने देवलो वा । असितो वा काश्यपासितदेवलेति वा । अन्त्ययोर्व्यत्ययो वा । शाण्डिल्यासितदैवलेति वा । शाण्डिलेति क्वचित्पाठः । असितदेवलशाण्डिल्येति वा ।

 कश्यपानां परस्परमविवाहः, कश्यपस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्सप्रवरत्वाच्च ।

इति कश्यपाः ।

अथ वसिष्ठाः । (७)

 ते चत्वारः । वसिष्ठाः कुण्डिना उपमन्यवः पराशराश्च ।

 वसिष्ठा वैतालकवयो रकयः सारबला गौरिश्रव[१४]सा आश्वलायनाः क[१५]पिष्ठलाः शौचिवृक्षा व्याघ्रपादा बाह्यका[१६]यनो गायन[१७]या नयाव्या जातूकर्ण्या रौध्नाम[१८]याः कौभोजयः कौलायनाः सुवाहा हा[१९]रीताः काण्डवृद्धयः सौपवत्सायना आलम्भायना लोमायनाः स्वस्त्याकर्षिताः पार्ष्णिकायनाः पार्णवल्का दे[२०]वना गौरव्या विश्वायना वाहकथयोऽवकितयो वस्वपाजयाः पूतिमाषाः सर्मवेला औपवना औपगवा वैष्णवाः । सात्वलायना औडुलोमा



  1. ड. यना गा ।
  2. ड. नैदेहा ।
  3. ड. खा अजार्वशा ।
  4. ड. लघवा ।
  5. ग. गैशिलाः ।
  6. ड. शिञ्जाः ।
  7. ग. कौदण्ड ।
  8. ग. हुपिण्डा ।
  9. ड. चटायना ।
  10. ड. कुहला ।
  11. ख. महन्ता ।
  12. ग. पार्यश्वा ।
  13. ग. द्वौ, देव ।
  14. ग. वत्सा आ ।
  15. ग. कपिष्टलाः ।
  16. ख. यना गा । ड. यनयो गा ।
  17. ड. नयो न ।
  18. ग. मथाः कौ ।
  19. ग. हरिताः । ङ. हारिताः ।
  20. ग. देवता ।