पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६१

पुटमेतत् सुपुष्टितम्
[विवाहः]
४५७
संस्काररत्नमाला
( विवाहकालनिर्णयः )
 

स्यात् । ऋतुमत्यपि तिष्ठेदितिवचनमुक्तरीत्या न स्वार्थे तात्पर्यवत् । अतो नोपरुन्ध्याद्रजस्वलामित्यनेन न विरोधः ।

 अत एव वसिष्ठोऽपि--

"प्रयच्छेन्नग्निकां कन्यामृतुकालभयात्पिता ।
ऋतुमत्यां हि तिष्ठन्त्यां दोषः पितरमृच्छति" इति ।

 कन्याशब्देन लज्जाद्यभिमानरहितवयोयुक्ता विविक्षता ।

 तथा च माधवीये पुराणम्--

"यावन्न गूहतेऽङ्गानि कन्या पुरुषसंनिधौ ।
योन्यादीन्नावगूहेत तावद्भवति कन्यका" इति ।

 अमरस्तु नग्निकाऽनागतार्तवेत्याह।

स्मृत्यन्तरे--

"षडब्दमध्ये नोद्वाह्या कन्यका वत्सरद्वयम् ।
सोमो भुङ्क्ते यतस्तद्वद्गन्धर्वश्च तथाऽनलः" इति ।

 एतन्मूलभूता श्रुतिरपि--

 "सोमः प्रथमो विविदे" इत्यारभ्य "तृतीयोऽग्निष्टे पतिः" इत्यन्ता ।

 नन्वस्य विरोधो ब्रह्मपुराणे गौतमीमाहात्म्ये भानुतीर्थवर्णने विष्टिभानुसंवादे दृश्यते--

"चतुर्थाद्वत्सरादूर्ध्वं यावन्न दशमात्ययः ।
तावद्विवाहः कन्यायाः पित्रा कार्यः प्रयत्नतः" इति ।

 सत्यम् । एतत्पुराणवाक्यं शुद्राविषयं न ब्राह्मण्यादिविषयमित्यविरोधः । सप्तमवर्षं विषमत्वान्नारदादिभिः स्त्रीविवाहे नाङ्गीकृतं तस्मात्सर्ववर्णानामविरुद्धमष्टमनवमदशमवर्षेषु स्त्र्युद्वहनम् ।

 ननु नवमवर्षस्य ग्रहणं विरुद्धं युग्मेऽब्दे जन्मतः स्त्रीणामितिनारदवचनविरोधादिति चेत्सत्यम् । "नववर्षा तु रोहिणी" इति नववर्षाया रोहिण्याः "वैकुण्ठो रोहिणीं ददन्"इति वक्ष्यमाणमरीचिवचने [१]रोहिणीप्रदाने फलविशेषोक्त्या नवमवर्षस्यापि विवाहकालत्वेनोक्तत्वात् ।

 वयोविशेषेण दातुः फलविशेषमाह मरीचिः--

"गौरीं ददन्नाकपृष्ठे वैकुण्ठे रोहिणीं ददन् ।
कन्यां ददन्ब्रह्मलोके रौरवे तु रजस्वलाम्" इति ।

वसतीति शेषः ।



  1. रोहिणीशब्दोऽधिकः ।