पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८१

पुटमेतत् सुपुष्टितम्
[विवाहः]
४७७
संस्काररत्नमाला
( सविशेषा विवाहभेदाः )
 

 बन्धुशीलेत्यारभ्य प्रतिपादयेदित्यन्तं ब्राह्मार्षदैवविवाहेषु नियतमासुरे त्वनियतं तस्येच्छाधीनत्वात् । इतरेषु तु नैतत् । प्रतिपादनाभावेन परीक्षाया अप्यभावात् । अलंकृत्य दद्यादित्यत्र ददातिः प्रतिपादनार्थ एव । पूर्वत्र प्रतिपादयेदित्यस्यैवोपक्रान्तत्वात् । दुहितृमते मिथुनगोदानं विवाहहोमानन्तरम् ।

 तथा च बौधायनः--

"पूर्वं लाजाहुतिं हुत्वा गोमिथुनं कन्यावते दद्यात्" इति ।

 दैवे यज्ञ ऋत्विजे प्रतिपादयेदित्येतावतैव सिद्धौ तन्त्रग्रहणस्वरसान्महतः सौमिककर्मण एवात्र ग्रहणं नैष्ठिकपाशुकयोरिति । प्रतिपादयेदितिवचनादृत्विज इत्येकस्मा एव प्रतिपादनाच्च नेयं तन्त्रसंबन्धिदक्षिणा । ऋत्विज इत्यत्रासगोत्रासपिण्डो यः कश्चनर्त्विक्संप्रदानत्वेन ज्ञेयः ।

 एतच्च प्रतिपादनं प्रधानदक्षिणादानानन्तरम् ।

 तथा च बौधायनः--

"दक्षिणासु नीयमानास्वन्तर्वेद्यृत्विजे दद्यात्" इति ।

 अत्र प्रतिग्रहे मन्त्रविशेष उक्तो बौधायनेन--

"अथ यदि दक्षिणाभिः सह दत्ता स्यात्तां प्रतिगृह्णीयात्प्रजापतिः स्त्रियामिति षड्भिरनुच्छन्दसम्" इति ।

 दक्षिणाभिः सह दत्तेति वचनमपि कन्याप्रतिपादनस्य यागदक्षिणात्वं नेत्यत्र लिङ्गम् । अयं च प्रतिग्रहमन्त्रविशेषोऽस्माकमप्यविरुद्धः । न च तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविरोध इति वाच्यम् । एतस्य प्रतिग्रहमन्त्रविशेषस्य दक्षिणाप्रतिग्रहप्रकरणे सूत्रकारेणापठितस्य तान्त्रीणां दक्षिणानां दर्शयतीतिसूत्रविषयकत्वासंभवेन विरोधाभावात् । दीक्षितो न ददातीति निषेधो यज्ञतन्त्रे कन्याप्रतिपादने न प्रवर्तते विधानबलात् । प्रतिपादनं तु कृत्स्नेन कन्यादानोक्तविधिना कार्यम् । कन्याप्रतिपादनाङ्गभूतहिरण्यादिदानस्य तु ददातिविहितत्वान्निषेधोऽस्त्येव । ([१]पुण्याहवाचनादिकं कन्यावरणं वाग्दानं मधुपर्कश्च निवर्तते ।) एतेषां षण्णां मन्त्राणां विश्वे देवा ऋषयः प्रजापत्यादयो देवता आद्याः पञ्चानुष्टुभ आपस्तत्सत्यमाभरन्निति गायत्री कन्याप्रतिग्रहे विनियोग इत्यृष्यादि द्रष्टव्यम् ।



  1. धनुश्चिह्नान्तर्गतो ग्रन्थः ख. पुस्तके नास्ति ।