पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४८३

पुटमेतत् सुपुष्टितम्
[विवाहः]
४७९
संस्काररत्नमाला
( सविशेषा विवाहभेदाः )
 

तपरिगृहीतकलत्रा इति यावत् । हिर[१]प्यर्थे । कर्षणाधिकृता वैश्याः शुश्रूषाधिकृताः शूद्राः । पैशाचस्यान्त्यत्वं तु मनुवाक्यसिद्धम् ।

 अन्यविवाहासंभवे ब्राह्मणादीनां पैशाचमप्यनुजानाति वत्सः--

"सर्वोपायैरसाध्या स्यात्सुकन्या पुरुषस्य या ।
चौर्येणापि विवाहेन सा विवाह्या रहःस्थिता" इति ॥

 यत्तुः--"आसुरवदार्षोऽपि पापीयान्क्रयक्रीतत्वाविशेषात् ।

अत एव कश्यपः--

"क्रयक्रीता तु या नारी न सा पत्न्यभिधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः" इति ॥

यमोऽपि--

"कन्याविक्रयिणो मूर्खा रहःकिल्विषकारिणः ।
पतन्ति नरके घोरे दहन्त्यासप्तमं कुलम्" इति ॥

 एतच्चाऽऽत्मार्थं धनग्रहणे । कन्यार्थे तु न दोषः ।

 यथाऽऽह मनुः--

"यासां नाऽऽददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंस्यं तु केवलम्" इति ॥

 आनृशंस्यमपापित्वम् ।

मनुः--

"ब्राह्मो दैवस्तथैवाऽऽषः प्राजापत्यस्तथाऽऽसुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः" ॥

 इत्यष्टौ भेदानुक्त्वा तेषां लक्षणान्यभिधाय तेष्वार्षस्य क्रयक्रीतत्वादधर्म्यत्वमित्यभिप्रेत्याऽऽह--

"पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ।
पैशाचश्चाऽऽसुरश्चैव न कर्तव्यौ कथंचन" इति ॥

 ब्राह्मादीनामासुरान्तानां मध्ये ब्राह्मदैवप्राजापत्यास्त्रयो धर्म्याः क्रयाभावात् । आर्षासुरौ द्वावधर्म्यौ क्रयक्रीतत्वात्तयोरप्यासुरः पैशाचवदापद्यपि न कर्तव्यः" इति ।

 तन्न । पञ्चाना[२] मितिवचनस्य मतान्तरोपन्यासपरत्वात् । कुत एतत् । यतः स्वयमेवोत्तरत्र गोमिथुनस्य शुल्कत्वं मतान्तरेणानूद्य निषेधति--

"आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।
अल्पो वाऽपि महान्वाऽपि क्रियते तावतैव सः" इति ।



  1. क. ग. ड. रण्यर्थे ।
  2. ख. ग. ड. नामपि व ।