पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९२

पुटमेतत् सुपुष्टितम्
४८८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहे रजोदोषनिर्णयः )
 

षाप्रति नान्दीमुखानुरोधेनावश्यकर्तव्यता विहिता तान्प्रत्येवापकर्षविधावपि शब्दसामञ्जस्यात् । सपिण्डीकरणस्य सत्यपि प्रेतश्राद्धत्व आहिताग्न्यादिविषयत्वेन व्यवस्थापितत्रिपक्षादिकालबाधेनाप्यपकर्षसिद्ध्यर्थं पृथग्ग्रहणम् ।

"सपिण्डीकरणादर्वागपकृष्य कृतानि तु ।
पुनरप्यपकृष्यन्ते वृद्ध्युत्तरनिषेधनात्"

 इति शाट्यायनिवचोऽपि तावत्पुरुषविषयमेव पुनरपीत्युक्तेस्तान्प्रत्येव संभवादिति कौस्तुभे ।

 ज्वरितस्य यावत्स्वास्थ्यं मङ्गलं न कार्यम् ।

 तथा च गर्गः--

"ज्वरस्योत्पादनं यस्य शुभं तस्य न कारयेत् ।
दोषनिर्गमनात्पश्चात्स्वस्थो धर्मं समाचरेत्" इति ॥

 कस्यचित्कुलजस्य शरीरेऽतिदारुणज्वरोत्पत्तौ निश्चयोऽपि न कार्यः ।

 तथा च स एव--

"केचिदूचुर्गृहस्थस्य कस्यचिद्दारुणो ज्वरः ।
तावन्मङ्गलकार्यस्य न कार्यो निश्चयो बुधैः" इति ।

इति प्रतिकूलविधिः ।

अथ रजोदोषनिर्णयः ।

 माधवीये--

"प्रारम्भात्प्राग्विवाहस्य माता यदि रजस्वला ।
निवृत्तिस्तस्य कर्तव्या सहत्वश्रुतिचोदनात्" इति ॥

 तस्य रजोदोषस्य निवृत्तिः कर्तव्या कर्मार्थं शुद्धिः प्रतीक्षणीयेत्यर्थः । विवाहारम्भात्प्राग्यदि माता रजस्वला भवेत्तदा तस्याः शुद्धौ सत्यामेव विवाहः कर्तव्यो न तु तां परित्यज्येति तात्पर्यार्थः । अत्र हेतुमाह-- सहत्वश्रुतिचोदनादिति । यद्यप्यत्र सामान्यतो निवृत्तिस्तस्य कर्तव्येत्युक्त्या चतुर्थदिवसे रजोनिवृत्तौ सत्यां चतुर्थदिनेऽपि विवाहः कर्तव्य इति प्राप्तं तथाऽपि--

"दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति" ।

 इति वचनेन पञ्चमदिन एव सर्वकर्माधिकारस्योक्तत्वात्तद्दिनमारभ्यैव विवाहेऽधिकारो न[१] तु चतुर्थदिनमारभ्यापीति ज्ञेयम् ।



  1. क. न च ।