पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४९८

पुटमेतत् सुपुष्टितम्
४९४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( समानक्रियाविचारः )
 

 अत्र कुलं पुरुषत्रयपर्यन्तमेव ।

 तथा च मेधातिथिः--

"पुरुषत्रयपर्यन्तं प्रतिकुलं स्वगोत्रिणाम् ।
प्रवेशनिर्गमौ तद्वत्तथा मुण्डनमण्डने" इति ।

 मण्डनमुण्डनशब्दार्थः कात्यायनेनोक्तः--

"मुण्डनं चौलमित्युक्तं व्रतोद्वाहौ तु मण्डनम् ।
चौलं मुण्डनमित्युक्तं वर्जयेद्वरणात्परम् ।
मौञ्जी चोभयतः कार्या यतो मौञ्जी न मुण्डनम्" इति ।

 चौलस्य मुण्डनप्रधानत्वादिति तदाशयः । मौञ्ज्यां मुण्डनमङ्गं न प्रधानमिति मौञ्जी न मुण्डनमित्यस्याऽऽधायः । वरणात्परं कन्यावरयोर्वरणोत्तरं कन्यावरयोर्वरणप्रभृतीति यावत् ।

 प्रवेशानिर्गमशब्दार्थः कात्यायनेनोक्तः--

"पुत्रोद्वाहः प्रवेशाख्यः कन्योद्वाहस्तु निर्गमः" इति ।

 संहितासारावल्याम्--

"न मण्डनान्मुण्डनमूर्ध्वमिष्टं न पुत्रयोर्मण्डनमेकवर्षे ।
न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात्" इति ।

 मदनरत्ने वसिष्ठः--

"न पुंविवाहोर्ध्वमृतुत्रयेऽपि विवाहकार्यं दुहितुः प्रकुर्यात् ।
न मण्डनाच्चापि हि मुण्डनं च गोत्रैकतायां यदि नाब्दभेदः ।
एकोदरभ्रातृविवाहकृत्यं स्वसुर्न पाणिग्रहणं विधेयम् ।
षण्मासमध्ये मुनयः समूचुर्न मुण्डनं मण्डनतोऽपि कार्यम्" इति ।

 मिहिरः--

"पुत्रोपनयनादूर्ध्वं षण्मासाभ्यन्तरं तथा ।
पुत्रोद्वाहं न कुर्वीत विवाहाद्व्रतबन्धनम्" इति ।

एतदपवादस्तत्रैव--

"ऋतुत्रयस्य मध्ये चेदन्याब्दस्य प्रवेशनम् ।
तदा ह्येकोदरस्यापि विवाहस्तु प्रशस्यते" इति ।

 अत्र[१] तुशब्देन विवाहभिन्नमेकोदरविषयं मङ्गलद्वयमब्दभेदेऽपि न भवतीति ज्ञाप्यते ।



  1. ख. ग. ङ. त्रर्तुश ।