पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०

पुटमेतत् सुपुष्टितम्
४६
[अङ्कुरारोपणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

अङ्कुरारोपणप्रयोगः ।

 अथाङ्कुरारोपणप्रयोगः । कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुककर्मसाफल्यनिरन्तरशुभतासिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थमङ्कुरारोपणं करिष्य इति संकल्प्य गणपतिं संपूज्य पदप्रभृतिसमसंख्यान्ब्राह्मणान्संपूज्यान्नेन परिविष्याङ्कुरारोपणकर्मणः पुण्याहं भवन्तो ब्रुवन्तु । अङ्कुरारोपण[१]कर्मणः स्वस्ति भवन्तो ब्रुवन्तु । अङ्कुरारोपणकर्मण ऋद्धिं भवन्तो ब्रुवन्तु । इति त्रिस्त्रिर्विप्रान्वाचयेत् । ॐ पुण्याहम् , ॐ स्वस्ति, ओमृद्धिरोमृध्यतामिति वा, इति विप्रास्त्रिस्त्रिः प्रतिब्रूयुः ।

 ततः कर्ता ब्रह्मादयः प्रीयन्तामिति पात्रे जलं क्षिप्त्वा शुचौ देशे गोचर्ममात्रं चतुरश्रं स्थण्डिलं गोमयेन विधाय रङ्गवल्ल्यादिभिरलंकृत्य श्वेताक्षतान्संप्रकीर्याद्भिरभ्युक्ष्य सुवर्णरजतताम्रान्यतमनिर्मिता अभावे मृन्मयीर्वा पञ्च पालिकास्तत्र संस्थापयेत् । अत्र गोचर्मशब्दो यौगिक एव ग्राह्यो न तु--

"वृषभैकशतं यत्र गवां तिष्ठति संवृतम् ।
बालवत्साशतं चैव गोचर्मेति बुधा विदुः" इति पारिभाषिकः ।

 एतस्य दानविषयत्वात्प्रकृतेऽसंभवाच्च । एवं च गोर्यावत्प्रमाणं चर्म तदनुसारेणैव चतुरश्रस्थण्डिलकरणमत्र । ततो वल्मीकमृदं ह्रदमृदं शुष्कगोमयचूर्णं चैकीकृत्य मध्यमायां पालिकायां प्रक्षिप्य प्रागादिषु क्रमेण प्रक्षिपति । ततस्तासामधोभागेषु दूर्वाङ्कुराश्वत्थशिरीषबिल्वपत्राणि प्रक्षिप्य श्वेतसूत्रेण पालिका आवेष्ट्य तासु क्रमेण देवता आवाहयेत् । प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता देवी गायत्री छन्दः । व्यस्तव्याहृतीनामग्निर्ऋषिः । समस्तव्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्यप्रजापतयः क्रमेण देवताः । गायत्र्युष्णिगनुष्टुब्बृहत्यः क्रमेण च्छन्दांसि । आवाहने विनियोगः । ॐ भूर्ब्रह्माणमावाहयामि । ॐ भुवश्चतुर्मुखं ब्रह्माणमावाहयामि । ॐ सुवः प्रजापतिं ब्रह्माणमावाहयामि । ॐ भूर्भुवः सुवर्हिरण्यगर्भं ब्रह्माणमावाहयामीति मध्यमायां पालिकायां ब्रह्माणमावाह्य । ॐ भूर्वज्रिणमावाहयामि । ॐ भुवः शचीपतिमावाहयामि । ॐ सुवरिन्द्रमावाहयामि । ॐ भूर्भुवः सुवः शतक्रतुमावाहयामि । इति पूर्वस्यां पालिकायां वज्रिणम् । ॐ भूर्यममावाहयामि । ॐ भुवो वैवस्वतमावाहयामि । ॐ सुवः पितृपतिमावाहयामि । ॐ भूर्भुवः सुवः प्रेतपतिमावाहयामि । इति दक्षि


  1. घ.मणे स्व ।