पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०६

पुटमेतत् सुपुष्टितम्
५०२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( दत्तापहारः )
 

 इत्यप्रदाने दोषश्रवणात् । अतो दर्शपूर्णमासवन्नित्यं काम्यं च ।

 अन्यस्य धर्मार्थं विवाहकरणे फलमुक्तं महाभारते--

'ज्ञात्वा स्ववित्तसामर्थ्यमेकमुद्वाहयेद्द्विजम् ।
तेनाप्याप्नोति तत्स्थानं शिवभक्तो नरो ध्रुवम्' इति ।

 अपरार्के दक्षोऽपि--

'मातापितृविहीनं तु संस्कारोद्वाहनादिभिः ।
यः स्थापयति तस्येह पुण्यसंख्यां न विद्यते' इति ।

 कन्यागृहे भोजननिषेधो भविष्ये--

'अप्रजायां तु कन्यायां न भुञ्जीत कदाचन ।
दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचति' इति ।

 न भुञ्जीतेत्यत्र कन्यागृह इति शेषः ।

 अपरार्क आदित्य पुराणेऽपि--

'अप्रजायां तु कन्यां नाश्नीयात्कन्यकागृहे ।
ब्राह्मदेयां न वै कन्यां दत्त्वाऽश्नीयात्कदाचन ।
अथ भुञ्जीत मोहाच्चेत्स याति नरकं ध्रुवम्' इति ।

 ब्राह्मविवाहविधिना दातुं योग्यां कन्यां दत्त्वा कदापि तस्या गृहे नैवाश्नीयादित्यर्थः । अत्राप्यप्रजायामित्यनुषञ्जनीयम् ।

 शाकलकारिकास्वपि--

'दुहित्रन्नं न भुञ्जीयाद्यावत्तस्या भवेत्सुतः ।
अन्यथा यस्तु भुञ्जीत दानं तस्य वृथा भवेत् ।
कन्यायास्त्वप्रसूताया यस्त्वन्नं भुञ्जते यदि ।
अघं स केवलं भुङ्क्ते प्राजापत्येन शुध्यति' इति ।

अथ दत्तापहारः ।

 तत्र याज्ञवल्क्यः--

'दत्तामपि हरेत्पूर्वं श्रेयांश्चेद्वर आव्रजेत्' इति ।

 पूर्ववरापेक्षया श्रेयान्गुणैर्वरिष्ठो वर आव्रजेदागच्छेच्चेत्पूर्ववराय दत्तां वाचा दत्तामपि कन्यां हरेत् । तस्मै न दद्यादित्यर्थः ।