पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१

पुटमेतत् सुपुष्टितम्
[अङ्कुरारोपणप्रयोगः]
४७
संस्काररत्नमाला ।

 णस्यां पालिकायां यमम् । ॐ भूर्वरुणमावाहयामि । ॐ भुवः प्रचेतसमावाहयामि । ॐ सुवः सुरूपिणमावाहयामि । ॐ भूर्भुवः सुवरपांपतिमावाहयामि । इति पश्चिमायां पालिकायां वरुणम् । ॐ भूः शशिनमावाहयामि । ॐ भुव इन्दुमावाहयामि । ॐ सुवर्निशाकरमावाहयामि । ॐ भूर्भुवः सुवः सोममावाहयामि । इत्युत्तरस्यां पालिकायां सोमम् ।

 ततस्तत्तन्मन्त्रैर्नाममन्त्रैर्वा काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । आपो हि ष्ठेतिमन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । हिरण्यवर्णा इति मन्त्रचतुष्टयस्याग्निरापस्त्रिष्टुप् । पवमानानुवाकमन्त्राणां प्रजापतिर्ऋषिः । पवमानः सुवर्जनो विचर्षणिः पोता च । देवजना मनवो विश्व आयवश्च । जातवेदा अग्निरग्निर्देवः सविता वैश्वदेवी पुनती च । वैश्वानरो वात इषिरो मयोभूर्द्यावापृथिव्यावृतावर्यौ च । सविता देवोऽग्निश्च ब्रह्मा पावमान्यः ६ । ब्रह्म, इन्द्रः सुनीत्या सद्दितः सोमः स्वस्त्या सहितो वरुणः समीच्या सहितो यमो राजा प्रमृणाभिः सहितो जातवेदा ऊर्जयन्त्या सहितश्चेति सप्तदशानां क्रमेण देवताः । प्रथमद्वितीयचतुर्थपञ्चमाष्टमानां गायत्री छन्दः । तृतीयनवमदशमैकादशद्वादशत्रयोदशचतुर्दशपञ्चदशषोडशानामनुष्टुप् । पष्ठसप्तमसप्तदशानां त्रिष्टुप् । स्थापने विनियोगः । ॐ आपो हि ष्ठा म० ३ । हिरण्यवर्णाः शुच० ४ । पवमानः सुवर्जनः । पवित्रेण विचर्षणिः० मोर्जयन्त्या पुनातु । इत्येतैः सर्वान्ते ब्रह्मादीन्संस्नापयेत् । प्रतिमन्त्रमिति केचित् ।

 पुष्पाञ्जलिसमर्पणान्ते--

दिशां पतीन्नमम्यामि सर्वकामफलप्रदान् ।
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् ।

 इति पालिकानां पश्चात्तिष्ठन्प्राङ्मुख उपतिष्ठतेति पूजने विशेषः ।

 तत उपविश्य व्रीहियवतिलमुद्गसर्षपान्मिश्रीकृत्य क्षीरेण प्रक्षाल्य मध्यमपालिकादिक्रमेण निवपति । ब्रह्म जज्ञानमिति द्वयोरग्निर्ब्रह्मा त्रिष्टुप्, ओषधिनिवपने विनियोगः । ॐ ब्रह्म जज्ञानं प्रथमं० विवः । हिरण्यगर्भः समवर्त० विधेम इति द्वाभ्यां मध्यमपालिकायां निवपति । यत इन्द्रेति द्वयोर्विश्वे देवा ऋषयः । इन्द्रा देवता । आद्याया बृहती अन्त्याया अनुष्टुप् । ओषधिनिवपने विनियोगः । ॐ यत इन्द्र० जहि । स्वस्तिदा विशस्प० अभयंकरः । इति द्वाभ्यां पूर्वस्यां पालिकायां निवपति । योऽस्य कौष्ठ्येति द्वयोः प्रजापतिर्यमोऽनुष्टुप्, ओषधिनिवपने विनियोगः । ॐ योऽस्य कौष्ठ्यन० पृथिवी