पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५२९
संस्काररत्नमाला
( वाग्दानविधिः )
 

श्राद्धान्तं कृत्वा वरुणविष्णुप्रतिमयोरग्न्युत्तार[१]णं कृत्वा मही द्यौरित्यादिविधिना कुम्भस्थापनम् । तस्मिन्कुम्भे वरुणप्रतिमायां कृतप्राणप्रतिष्ठायां वरुणपूजनं च विधाय कृतप्राणप्रतिष्ठायां कलशे स्थापितायां विष्णुप्रतिमायां विष्णुं संपूज्य प्रार्थयेत्--

"वरुणाङ्गस्वरूपाय जीवनानां समाश्रय ।
पतिं जीवय कन्यायाश्चित्रं पुत्रसुखं कुरु ॥
देहि विष्णो वरं देव कन्यां पालय दुःखतः" इति ॥

 ततो विष्णुरूपिणे कुम्भायेमां कन्यां श्रीरूपिणीं समर्पयामीति समर्प्य परि त्वेत्यादिभिर्वक्ष्यमाणैर्वेष्टनमन्त्रैरधस्तादुपरिष्टाच्च मन्त्रावृत्त्या कुम्भं कन्यां च परिवेष्ट्य कुम्भं निःसार्य सलिलाशये प्रभञ्जयित्वा(ञ्ज्य) पञ्चपल्लवैः शुद्धजलेन समुद्रज्येष्ठा इत्यादिमन्त्रैः कन्यामभिषिच्य ब्राह्मणान्भोजयेत् ।

इति कुम्भविवाहविधिः ।

अथ वाग्दानविधिः ।

 कश्यपसंहितायाम्--

"अथातः संप्रवक्ष्यामि कन्यावरणमुत्तमम् ।
सम्यक्तस्याः प्रदानं च पुत्रपौत्रप्रवर्धनम् ॥
पञ्चाङ्गशुद्धिदिवसे चन्द्रताराबलान्विते ।
विवाहोक्तेषु ऋक्षेषु कुजवर्जितवासरे ॥
मासाद्यदिवसं रिक्तामष्टमीं नवमीं तथा ।
त्यक्त्वाऽन्यदिवसे गन्धस्रक्तण्डुलफलादिभिः ॥
सहवृद्धद्विजगणो वरयेत्कन्यकां सतीम् ।
तथेति तत्पिता कन्यावरणोक्तर्क्षवासरे ॥
कुर्यात्प्रदानं कन्यायाः स्वस्तिवाचनपूर्वकम् ।
कुलशीलगुणोपेतां सुरूपाय वराय वै ॥
ततस्तस्मै कन्यकां च शुक्लाम्बरविभूषणाम् ।
दद्यान्मङ्गलघोषैश्च विप्राशीर्वचनैः सह ॥
आदौ कृत्वा शचीपूजां पश्चात्सर्वं समाचरेत् ।
सुवर्णां पद्मपत्राक्षीं दिव्यस्रग्वस्त्रशोभिताम् ॥



  1. ङ. रणान्तं कृ ।