पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४५

पुटमेतत् सुपुष्टितम्
[विवाहः]
५३७
संस्काररत्नमाला
( घटीयन्त्रस्थापनप्रकारः )
 

तत्पराच्छतमो भागस्त्रुटिरित्यभिधीयते ।
त्रुटेः सहस्रभागो यो लग्नकालः स उच्यते ॥
देवोऽपि तं न जानाति किं पुनः प्राकृतो जनः ।
स कालोऽप्यन्यकालो वा पूर्वकर्मवशाद्भवेत् ॥
निमित्तमात्रं दैवज्ञस्तद्वशाच्च शुभाशुभम्" इति ।

बृहस्पतिस्तु--

"शुभग्रहोदयर्क्षा वा शुभषड्वर्ग एव वा ।
वेदविज्ञानवाक्यं च महान्तः शुभदा गुणाः" इति ॥

 वेदविज्ञानवाक्यं चेत्येतद्द्वेधा व्याख्यातं पारिजाते--वेदस्य विज्ञानं येषां ते वेदविज्ञानाः, वेदवेदाङ्गतत्त्वज्ञानास्तेषां वाक्यम् । अथवा विजानन्तीति विज्ञानाः । 'कृत्यल्युटो बहुलम्' इति निमित्तकर्तरि ल्युट् । वेदस्य विज्ञाना वेदविज्ञाना इति स एवार्थः । तेषां वाक्यं तु सुमुहूर्तमस्त्वित्येवंरूपमित्यर्थः । अपि च--वेदैर्विज्ञायत इति वेदविज्ञानो वेदवेद्यो लक्ष्मीपतिः । बहुलग्रहणात्कर्मणि ल्युट् । तस्य लक्ष्मीपतेश्चरणस्मरणरूपं वाक्यं तदेव लग्नमित्यादि । एतदुक्तं भवति ।

 मुहूर्तकाले सुमुहूर्तमस्तु ।

"तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽघ्रियुगं स्मरामि"

 इति चोक्त्वा मुहूर्तं दद्यादिति । गन्धादीत्यत्राऽऽदिशब्देनालंकारग्रहणम् ।

 संकटे गोधूलिकलग्नप्रवृत्तिरुक्ता ज्योतिर्निबन्धे--

"घटीलग्नं यदा नास्ति तदा गोधूलिकं शुभम् ।
शूद्रादीनां बुधाः प्राहुर्न द्विजानां कदाचन ॥
लग्नशुद्धिर्यदा न स्याद्यौवने समुपस्थिते ।
तदा वै सर्ववर्णानां लग्नं गोधूलिकं शुभम्" इति ॥

 प्रथमविवाहे नान्दीश्राद्धं पितृकर्तृकमेव--

"नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः ।
अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्" इति ॥

 पित्रभावे पितामहाद्यन्यतमः । सर्वेषामभावे स्वयमेवेति निबन्धकृतः ।

 रेणु[१]कारिकासु विशेषः--

"उक्ते काले विवाहाङ्गं कुर्यान्नान्दीमुखं पिता ।
देशान्तरे विवाहश्चेत्तत्र गत्वा भवेदिदम्" इति ॥



  1. ग. णुकाका ।