पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४६

पुटमेतत् सुपुष्टितम्
५३८
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( विवाहप्रयोगः )
 

 ग्रामान्तरे विवाहश्चेदित्यपि क्वचित्पाठः । नान्दीमुखमिति स्वस्तिवाचनमण्डपदेवतास्थापनाद्युपलक्षणम् । गृहप्रवेशस्थालीपाकादिकं तु स्वगृहं गत्वैव । इदानीं तु तत्रैव कुर्वन्ति तच्छिथिलम् ।


अथ विवाहप्रयोगः ।

 कन्यादाता सुमुहूर्ते गृहाङ्गण उक्तलक्षणं तोरणादियुक्तं मण्डपं कृत्वा तत्र वधूहस्तचतुष्टयपरिमाणां हस्तसप्तकहस्तपञ्चकान्यतरपरिमाणां वा समचतुरश्रां हस्तमात्रोच्छ्रायां सोपानयुतां सुश्लक्ष्णामुक्तलक्षणां वेदिं कुर्यात् । वरपित्रा तु स्वगृह उक्तलक्षणो मण्डप एव कार्यो न वेदिः ।

 ततो यथाकालं वैवाहिके ज्योतिर्विदादिष्टे शुभे मुहूर्ते कन्यापक्षीयपुरन्ध्र्यो वधूं सुगन्धितैलयवारकहरिद्रादिमङ्गलद्रव्यैरुद्वर्तनपूर्वकमुष्णोदकेन यथाचारं संस्नाप्य तच्छिष्टद्रव्यैरुद्वर्तनपूर्वकं तथैव वरं संस्नापयेयुरित्याचारः ।

 ततः कन्यादाता विवाहदिने तत्पूर्वदिने वा पूर्वाह्णे कृतमाङ्गलिकस्नानो धृतमाङ्गलिकवेष उपलिप्ते रङ्गवल्लिकायुक्ते प्राङ्गणे शुभ्रवस्त्राच्छादिते पीठासने प्राङ्मुख उपविश्य स्वस्य दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां पत्नीं तस्या दक्षिणतः कृतमाङ्गलिकस्नानां धृतमाङ्गलिकवेषां कन्यां चोपवेश्याऽऽचम्य प्राणानायम्येष्टदेवतागुर्वादीन्नमस्कृत्य देशकालौ संकीर्त्य ममास्या अमुकनाम्न्याः कन्याया ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इति संकल्पं कुर्यात् । ममास्याः कन्याया भर्त्रा सह धर्मप्रजोत्पादनद्रव्यपरिग्रहेष्वधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ब्राह्मविवाहविधिना विवाहसंस्कारं करिष्य इत्येवं वा संकल्पः । पितामहस्तु ममास्या अमुकनाम्न्याः पौत्र्या इत्येवं वदेत् । प्रपितामहस्तु प्रपौत्र्या इति । भ्रातृपितृव्यादयस्तु भगिन्या भ्रातृकन्याया इत्यादि संबन्धानुसारेण वदेत् । अथवा--अमुकप्रवरान्वितामुकगोत्रोत्पन्नोऽमुकशर्माऽहं मम समस्तपितॄणां निरतिशयसानन्दब्रह्मलोकावाप्त्यादिकन्याप्रतिपादनकल्पोक्तफलावाप्तये मया परिकल्पितेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान्द्वादश परान्पुरुषान्पवित्रीकर्तुमात्मनश्च लक्ष्मीनारायणप्रीत्यर्थममुकनाम्न्या अस्याः कन्यायाः प्रतिपादनरूपं विवाहं करिष्य इत्येवं संकल्पः । अस्मिन्पक्षे कन्याप्रतिपादने संकल्पो न कार्यः । वरपिता तु--अस्यामुकशर्मणः पुत्रस्य विवाहसंस्कारं करिष्य इत्येवं संकल्पं कुर्यात् । अस्यामुकशर्मणः पुत्रस्य दैवपित्र्यर्णापाकरणसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहसंस्कारं करिष्य इत्येवं संकल्पः । पितामहस्तु पौत्रस्येति वदेत् । प्रपितामहस्तु