पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५३९
संस्काररत्नमाला
( विवाहप्रयोगः )
 

प्रपौत्रस्येति । भ्रातृपितृव्यादिस्तु भ्रातुर्भ्रातृपुत्रस्येत्यादिसंबन्धानुसारेण । वस्तुतस्तु स्वस्य विवाहसंस्कारं करिष्य इत्येवं वरकर्तृक एव संकल्प इति युक्तम् । न च पितुः स्वस्तिवाचनाद्यङ्गकर्तृत्वात्संकल्पोऽपि तत्कर्तृक एवेति वाच्यम् । प्रधानानुष्ठातुर्वरस्यैव प्रधानसंकल्पकर्तृकताया उचितत्वात् । पाणिग्रहणं हि प्रधानम् । तच्च वरकर्तृकम् । अतो वरकर्तृक एवायम् ।

"नान्दीश्राद्धं पिता कुर्यादाद्ये पाणिग्रहे पुनः" ।

 इतिवचनान्नान्दीश्राद्धमात्रं पितृकर्तृकम् । नान्दीश्राद्धशब्देन 'स्वस्तिवाचनमप्युपलक्ष्यत इति केचित् । स्वस्तिवाचनादीनां बहिर्भूतत्वपक्षे प्रधानसंकल्पो वाग्दानात्पूर्वं कन्यादानात्पूर्वं वा कन्यादात्रा कर्तव्यः । वरेण वधूगृहगमनात्पूर्वं कर्तव्यः । स्वस्तिवाचनादीनां बहिर्भूतत्वपक्षे कन्याविवाहं कर्तुमादौ पुण्याहवाचनमित्यादिसंकल्पः कन्यादात्रा कर्तव्यः । वरपित्रा तु मत्पुत्रविवाहार्थं पुण्याहवाचनमित्यादिसंकल्पः कार्यः । कन्याविवाहस्य वरपक्षसंपाद्यवैवाहिकसामग्रीदानसहितक्रियायां वरपक्षसंपाद्यवैवाहिकसामग्रीदानसहितं विवाहसंस्कारं करिष्य इति संकल्पे विशेषः ।

 ततो गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धमङ्कुरारोपणं ग्रहमखं मण्डपदेवताप्रतिष्ठापनं च कुर्यात् । वरपिताऽपि गणपतिपूजनादि कुर्यात् । अत्राग्निः प्रीयतामिति विशेषः । अथवाऽङ्कुरारोपणग्रहमखौ पूर्वं पृथगेव यथावकाशं कार्यौ । न तु नान्दीश्राद्धोत्तरकर्तव्यतानियमः ।

 तत उभावपि मण्डपदेवताप्रतिष्ठापनानन्तरं विवाहाङ्गदेवताकुलदेवताप्रीत्यर्थं यथाचारं द्विजसुवासिनीकुमारादीन्यथाकालं यथोपपन्नेनान्नेन भोजयेताम् । एवमन्येऽपि वृद्धपारम्पर्यागता उच्चावचा देशधर्मा ग्रामधर्माः कुलधर्माश्चात्र कर्तव्याः । एतच्च सूत्रकृता ज्ञापितमस्ति--'अत्र बीजान्यधिश्रयन्ति' इत्यनेन सूत्रेण । आश्वलायनेन तु स्पष्टमेवोक्तम्-– 'अथ खलूच्चावचा जनपदधर्मा ग्रामधर्माश्च तान्विवाहे प्रतीयात्' इति । आपस्तम्बेनापि--'आवृतश्चाऽऽस्त्रीभ्यः प्रतीयेरन्' । इति[१] । आवृतः क्रिया वैवाहिक्यः । अविशेषात्समन्त्रका अमन्त्रकाश्च । ताः सर्वा आस्त्रीभ्यः सवर्णाभ्यः सकाशादवगम्य प्रतीयेरन्कुर्वीरन्विवोढारः । समन्त्रका ग्रहपूजादयः । अमन्त्रका इन्द्राणीपूजनादयः । ताश्च यथाजनपदं यथावर्णं यथाग्रामं यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव न सर्वाः समुच्चिता इति सुदर्शनेन व्याख्यातम् ।



  1. अत्र 'उक्तम्' इति शेषो ज्ञेयः ।