पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५४९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५४१
संस्काररत्नमाला
( वरवरणम् )
 

सुहृद्भिः सहायमागतो भवद्भिः स्वीयैः सह विचार्य वरपूजनार्थमनुज्ञैतेभ्यो देयेति ।

 ततो वरपिता[१] पित्राद्यनुमत्या दत्ता मयाऽनुज्ञेति । ततः पुरोहितादिश्चतुष्पादे शुभ्रवस्त्राच्छादिते पीठासने--"ॐ अनृक्षरा० ॐ स्वस्ति न इन्द्रो०" इति मन्त्राभ्यां प्राङ्मुखं शुक्लवस्त्रं सालंकारं सुवेषं वरमुपवेशयेत् ।

 ततस्तमुपवीतफलपुष्पादिभूषणगन्धवासोभिर्यथाविभवं संपूजयेत् ।

 ततः कन्यापिता वरस्य पुरोभागे प्रत्यङ्मुख उपविश्य वरपित्रादिसमीपे गणपत्यादिस्मरणपूर्वकम्, अमुकप्रवरान्वितामुकगोत्रोत्पन्नाया अमुकप्रपौत्र्या अमुकपौत्र्या अमुकपुत्र्या अमुकनाम्न्यै कन्याया अमुकप्रवरान्वितामुकगोत्रोत्पन्नममुकप्रपौत्रममुकपौत्रममुकपुत्रममुकशर्माणं भर्तृत्वाय वृणीमह इत्युपवीतादिभिर्वृणुयात् ।

 वरपिता सर्वेषामनुमतिं गृहीत्वा पूर्वोक्तमनूद्याननूद्य वा वृणीध्वमिति वदेत् । एवं पुनर्द्विः । बाढमिति सर्वानुमतिपूर्वकं वरपिताऽङ्गी कुर्यात् । वरणीयेयं कन्येति पित्रादिभिरनुज्ञायां दत्तायां स्वी करोमीति वरो ब्रूयात् । इदानीं सीमान्ते वरपूजनं यत्कुर्वन्ति तदेवेदम् । तत्रैवानया रीत्या वरवरणं कर्तव्यम् ।

 ततो वरस्य पादौ प्रक्षाल्य गन्धपुष्पाक्षतनीराजनवस्त्रादिभिर्यथाविभवं संपूज्य यथाचारं दुग्धादिप्राशनं तेन कारयित्वा नारिकेलफलं हस्ते दद्यादित्याचारप्राप्तम् ।

 ततो वरः कृतनित्यक्रियः स्वलंकृतः स्रग्वी दातदत्तवस्त्रादिभूषित इष्टदेवताकुलदेवतागुर्वादीन्नमस्कृत्य मम वधूगृहगमनकर्मणः पुण्याहं भवन्तो ब्रुवन्त्वित्यादिभिः पुण्याहवाचनं कृत्वाऽकृत्वा वा यथाविभवमश्वाद्यन्यतमयानमारुह्यसितच्छत्रः स्वर्चितैः सुभूषितैर्ज्ञातिबान्धवैरियमेव सा येत्यादिमन्त्रपाठपरैर्ब्राह्मणैः पुरन्ध्रीभिर्जलकुम्भदर्पणकन्यापुष्पाक्षतदीपमालाध्वजलाजमङ्गलवादित्रघोषैर्नृत्यद्भिर्नर्तकादिभिश्च युतो वधूगृहं गत्वा द्वारदेशे प्राङ्मुखः स्थित्वा नीराजनपूर्णकुम्भहस्ताभिः पुरन्ध्रीभिः प्रत्युद्याताभिर्नीराजितोऽन्तर्गृहं प्रविश्य मण्डपमध्ये हरितेषु दर्भेषु संस्थापिते सोत्तरच्छदे चतुष्पादभद्रपीठे प्राङ्मुख उपविशेत् । अत्र शिष्टाः कन्यावरणं कन्यापूजनं वाग्दानं च कुर्वन्ति ।



  1. ग. ता पुत्रा ।