पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५४५
संस्काररत्नमाला
( मङ्गलश्लोकाः )
 

 ततो देवेन्द्राणीं तत्रैव प्रतिमायामक्षतपुञ्जे वा पूजयित्वा,

"देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रियभामिनि ।
विवाहं भाग्यमारोग्यं पुत्रलाभं च देहि मे"

 इति संप्रार्थ्य सौभाग्यादि प्रार्थयमाना तत्रैव तिष्ठेत् ।

 ततः कन्यापिता कन्यया दीपं प्र[१]ज्वलयित्वा(य्य) ब्राह्मणान्सुवासिनीश्च पूजयेत् । तेभ्यो दक्षिणां च दद्यात् ।

इति गौरीहरयोः पूजनम् ।


 ततो ब्राह्मणाः स्वलंकृते मण्डपे वेश्मनि वा यथाचारं समङ्गलगीतनृत्यवादित्रादिघोषे क्रियमाणे पूर्वापरभागयोर्हस्तान्तरालं स्थलं विहाय प्रस्थपरिमितसिततण्डुलैर्द्वौ राशी कृत्वा मध्ये ज्योतिर्वित्कृतकुङ्कुमस्वस्तिकाङ्कितमन्तः--पटं राश्योर्मध्य उत्तरदशं धारयेयुः ।

 ततो बन्धुजनः पूर्वराशावश्मनि तण्डुलजीरकयुताञ्जलिकां प्रत्यङ्मुखीं वधूं पश्चिमराशौ पीठे तण्डुलजीरकयुताञ्जलिकं प्राङ्मुखं वरं चावस्थापयेत् ।

 आश्वलायनो वरश्चेत्प्राङ्मुखी वधूः प्रत्यङ्मुखो वरः । इत आरभ्य यावदन्तः--पटनिःसारणं द्विजा मन्त्रपाठं पुरन्ध्र्यो मङ्गलगीतानि कुर्युः ।

 प्रस्थपरिमितत्वं तण्डुलानां यमेनोक्तम्--

"आरुह्य तण्डुलप्रस्थमीक्षेत्प्रत्यमुखां(खीं) वधूम्" इति ।

 ततो वधूवरौ मनसेष्टदेवतां ध्यायन्तौ समाहितौ तिष्ठेताम् । अस्मिन्नवसरेऽवकाशानुरोधेन ज्योतिर्विदो मङ्गलश्लोकान्पठेयुः ।

 तत्र मत्कृताः षट्श्लोकाः--

देवो विघ्नविनाशनो गणपतिर्ध्यातश्च चिन्तापहृ-
द्यन्नत्या हृतविघ्नका अपि सुरा जाता हराजादयः ।
योऽत्राविघ्नसुसंज्ञया च कलशे संस्थापितो मण्डपे
सिद्ध्याश्लेषणहर्षितः स उभयोः कुर्यात्सदा मङ्गलम् ॥ १ ॥
वात्सल्यात्पितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बितुं
दृष्ट्वाऽऽकुञ्चितमास्यपघ्नममलं सेषत्स्मितं सत्वरम् ।
अन्योन्यं शिवयोस्ततः सुवदने युक्ते अभूतां तयो-
रित्थं येन विनोदितौ स भगवान्कुर्यात्सदा मङ्गलम् ॥ २ ॥



६९
 
  1. क. ख. ग. प्रज्वाल ।