पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५५७

पुटमेतत् सुपुष्टितम्
[विवाहः]
५४९
संस्काररत्नमाला
( कन्यादानम् )
 

 स्मृत्यर्थसारे वृद्धवसिष्ठः--

"नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् ।
नाम संकीर्तयेद्विद्वानन्यत्र पितृपूर्वकम्" इति ॥

 नान्दीमुखे प्रपितामहपूर्वकत्वं यच्छाखायां विहितं भवति तद्विषयं नास्मत्सूत्रविषयम् । अस्मत्सूत्रे तस्य विधानाभावाद्यज्ञतन्त्रचौण्डपाचार्यरामाण्डारादिभिरानुलोम्यस्यैवोक्तत्वाच्च ।

 केचित्तु नान्दीमुख इति विवाहविशेषणम् । पित्रादिप्रयोजकत्वेन हर्षसंपादक इति तदर्थः । चस्त्वर्थ इत्याहुः ।

 अनया रीत्या नान्दीमुखे प्रपितामहपूर्वकत्वस्याप्राप्तिरेव । अस्मिन्मते राक्षसादिविवाहस्य हर्षसंपादकत्वाभावान्न तत्र प्रपितामहपूर्वकत्वम् ।

 व्यासः--

"भुक्त्वा समुद्वहेत्कन्यां सावित्रीग्रहणं तथा ।
उपोषितः सुतां दद्यादर्चिताय द्विजाय तु" इति ॥

 भुक्त्वेति मधुपर्काङ्गभोजनपरम् ।

 मदनरत्न ऋष्यशृङ्गः--

"वरगोत्रं समुच्चार्य प्रपितामहपूर्वकम् ।
नाम संकीर्तयेद्विद्वान्कन्यायाश्चैवमेव हि ॥
तिष्ठेत्पूर्वमुखो दाता वरः प्रत्यङ्मुखो भवेत् ।
मधुपर्कार्चितायैनां तस्मै दद्यात्सदक्षिणाम् ॥
उदपात्रं ततो गृह्य मन्त्रेणैनां प्रदापयेत् ।
गौरीं कन्यामिमां विप्र यथाशक्ति विभूषिताम् ॥
गोत्राय शर्मणे तुभ्यं दत्तां विप्र समाश्रय ।
भूमिं गां चैव दासीं च वासांसि च स्वशक्तितः ॥
महिषीं वाजिनश्चैव दद्यात्स्वर्णमणीनपि ।
ततः स्वगृह्यविधिना होमाद्यं कर्म कारयेत् ॥
यथाचारं प्रदेयानि मङ्गलं करकाणि च" इति ॥

 सर्वत्र पितृपूर्वकत्वस्यैव दृष्टत्वात्प्रपितामहपूर्वकत्वविधानम् । एवमेवेत्यनेन गोत्रोच्चारादिकं कन्यायामप्यतिदिश्यते । प्राङ्मुखो दाता, उदङ्मुखः प्रतिग्रहीतेतिदानपरिभाषाप्राप्तस्य बाधनार्थं तिष्ठेत्पूर्वमुख इत्यादिकम् । गृह्येत्यत्र समासाभावेऽपि क्त्वो ल्यबादेशश्छान्दसः । दापयेदित्यत्र स्वार्थे णिच् । मङ्गलं