पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६

पुटमेतत् सुपुष्टितम्
५२
[अग्निमुखविधिः]
भट्टगोपीनाथदीक्षितविरचिता--
(सिकतादोषाः, स्थण्डिलोच्छ्रायमानम्)
 

 विशेषलक्षणं शूल्बसूत्रे--

"प्रमाणं तृतीयेन वर्धयेत्तच्च चतुर्थेनाऽऽत्मचतुस्त्रिंशोनेन" इति ।

 प्रदेशिन्या मध्यमाया वोर्ध्वाङ्गुलेः प्रमाणं त्रेधा विभज्य तदेकांशपरिमितमंशं वर्धयित्वा तदंशचतुर्थांशं स्वचतुस्त्रिंशांशोनं तत्र संयोज्य तावत्परिमिता दक्षिणत उच्छ्रित्तिः कार्या । उत्तरतस्तूर्ध्वाङ्गु[१]लिप्रमाणोच्छ्रितिरिति तात्पर्यार्थः ।

 शास्त्रान्तरे तु--

 "प्राक्प्रवणमुदक्प्रवणं वा स्थण्डिलं करोति पञ्चाङ्गुलोच्छ्रायं पश्चाच्चतुरङ्गुलोच्छ्रायं पुरत एवमेवान्यत्र" इति ।

 अन्यत्र, उदक्प्रवणत्वे । यद्यपि प्रागुदक्प्रवणपक्षोऽत्र नोक्तस्तथापि देशे प्रागुदक्प्रवणताया दर्शनादत्र प्राप्तिः ।

 बौधायनेनैतेषां पक्षाणां काम्यत्वमप्युक्तम्--

 "प्राचीनप्रवणं ब्रह्मवर्चसकामस्योदीचीनप्रवणमन्नाद्यकामस्य प्रागुदक्प्रवणं प्रजाकामस्य समं प्रतिष्ठाकामस्य" इति ।

 सिकतादोषानप्याह स एव--

 "अथातः सिकतादोषान्व्याख्यास्यामो भस्मकेशतुषकपालशर्करातृणास्थिपिपीलिकावतीभिरार्द्राभिः सिकताभिर्वजयेद्भस्मना यजमानक्षयः केशेन स्त्रीमरणं तुषैः पुत्रनाशः कपालैरर्थनाशः शर्कराभिर्बन्धुवियोगस्तृणेन कर्मक्षयोऽस्थ्ना ग्रामनाशः पिपीलिकाभी राष्ट्रनाश आर्द्रसिकताभिर्भयं भवतीत्याह भगवान्बौधायनः" इति ।

 वर्जयेदित्यनन्तरं स्थण्डिलकरणमिति शेषः । पिपीलिकाग्रहणं जन्तूपलक्षणम् । विधानपारिजाते स्थण्डिलोच्छ्राये विशेष उक्तः--

"कार्या शतार्धेऽङ्गुलसंमितोच्छ्रितिः शताहुतौ द्व्यङ्गुलसंमितोच्छ्रितिः ।
सहस्रहोमे चतुरङ्गुलोच्छ्रितिर्वस्वङ्गुला स्यादयुते समुच्छ्रितिः ॥
नृपाङ्गुला लक्षहतौ समुच्छ्रितिर्विशाङ्गुला स्यात्प्रयुते समुच्छ्रितिः ।
तत्त्वाङ्गुला कोटिमखे समुच्छ्रितिस्ततोऽधिकं नो विदधीत मानकम्" इति ।

 अथ प्रसङ्गाद्बह्वाहुतिकशान्त्यादिकर्मोपयोगिकुण्डस्थण्डिलयोः परिमाणम् । तत्रैकोनपञ्चाशत्संख्याहुतिपर्यन्तं स्थण्डिलमेव । तच्चाष्टादशाङ्गुलपरिमाणं परितोऽङ्गुष्ठोन्नतम् । अग्रे कुण्डेन सह विकल्पोऽशक्तिशक्तिभ्यां व्यवस्थितः । पञ्चाशदादिनवनवतिसंख्याहुतिपर्यन्तं मुष्टिमात्रम् । मुष्टी रत्निः । शतादिनवनवत्यधिकनवशताहुतिपर्यन्तमरत्निमितम् । निष्कनिष्ठमुष्टिहस्तोऽरत्निः ।


  1. ग. घ. ङ्गुलेर्यावान्विशेषस्तावन्मात्रैवोच्छ्रितिर्न तूर्ध्याङ्गुलिप्रमाणस्याप्यत्र ग्रहणमिति ता ।