पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६४

पुटमेतत् सुपुष्टितम्
५५६
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( कन्यादानोत्तरं कर्तव्यम् )
 

नीललोहितमन्त्रेण रक्षणार्थमिदं स्मृतम् ।
यत्सूत्रं कटिदेशस्थमूर्ध्वं निष्काशयेत्तु तत् ॥
रञ्जयित्वा कुङ्कुमेन कृष्णोर्णास्तुकया युतम् ।
दृढं तु रजनीखण्डं बद्ध्वा सूत्रेण तेन तु ॥
वरदक्षप्रकोष्ठे तु बध्नीयात्सुदृढं वधूः ।
प्रोक्तो मन्त्रः स एवात्र तूष्णीं वा बन्धनं स्मृतम् ॥
तैजसे पात्र आनीते क्षीरे गव्यं घृतं ततः ।
किंचिदासिच्यान्यपात्रे शुक्लानार्द्राक्षतान्क्षिपेत् ॥
तण्डुलाञ्शालिसंभूतांस्तत्र द्विः क्षीरमानयेत् ।
वध्वञ्जलिस्थाञ्जलिना द्विः क्षीरेण वरस्ततः ॥
उपस्तीर्याक्षतान्दुग्धाभ्यक्तान्द्विस्तत्र निक्षिपेत् ।
अथाभिघार्य प्राग्वविः पयसेत्येवमेव तु ॥
दाताऽन्यो वा प्रकुर्वीताञ्जलावपि वरस्य तु ।
अञ्जल्योर्वरवध्वोस्तु निदध्यात्काञ्चनं द्विजः ।।
तदञ्जली युतौ कृत्वा वदेद्वाक्यचतुष्टयम् ।
कन्या पुण्यं तथा शान्तिस्तिथीति क्रमशः पठेत् ॥
भगो यज्ञः श्रियो धर्मः प्रजा यश इति क्रमात् ।
मन्त्रैः शिरसि कुर्यातामक्षतारोपणं ततः ॥
आद्यो वध्वाः परः पत्युर्वध्वाः स्यात्तु तृतीयकः ।
तुर्यः पत्युः पञ्चमस्तु वध्वा अन्त्यो नुरेव तु ॥
एवं त्रिवारं कुर्वीत विपरीतमदः पुनः ।
तूष्णीं च सप्तमं ज्ञेयं वरपूर्वमिदं स्मृतम् ॥
चतुर्वारमिदं कार्यमिति केचित्समूचिरे ।
भगो मे काम इत्यादीन्मन्त्रान्नेच्छन्ति केचन ॥
स्वशिरस्थं ततः पुष्पं समादाय ततो वरः ।
क्षीर आज्ये च संप्लाव्य वरस्तेन ललाटके ॥
वध्वाः कुर्वीत तिलकमेवं कुर्याद्वधूस्ततः ।
निक्षिपेतां पुष्पमाले कण्ठयोस्तु परस्परम् ॥
वस्त्रद्वयं कञ्चुकं च सूत्रं मङ्गलसंज्ञकम् ।
अर्पयेयुः सुवासिन्यो वध्वै तां च वधूं वरः ॥