पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६८

पुटमेतत् सुपुष्टितम्
५६०
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( जीरकदानादि )
 

"जरा नो जायते यस्मान्मण्डनं शुभकर्मसु ।
तस्माज्जीरकदानेन प्रीयतां गिरिजा मम' इति जीरकदानमन्त्रः ।
"कञ्चुकीवस्त्रयुग्मैश्च तथा कर्णावतंसकैः ।
कण्ठसूत्रैश्च भूषाभिः प्रीयतां निमिनन्दिनी' ।

 इति सौभाग्यद्रव्ययुतशूर्पवायनदानमन्त्रः । एतानि सदक्षिणानि देयानि । ततो द्विजैराशिषो देयाः । 'ॐ नवो नवो भवति०' 'ॐ यथा ह तद्व०' 'मा नो अरातिर०' 'ॐ भद्रं कर्णेभिः० ४' ([१]ॐ अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पत इन्द्रापुत्रघ्नीं लक्ष्म्यन्तामस्यै सवितुः सवे' इति वरो वधूं समीक्षते । 'ॐ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे' इति वध्वेक्षमाणो वरो जपति । 'ॐ इदमहं या त्वयि पतिघ्न्यलक्ष्मीस्तां निर्दिशामि' इति वधूं मूखे दर्भेण संमाष्टि । दर्भ निरस्याप उपस्पृश्य 'ॐ मित्रोऽसि' इति वधूं दक्षिणहस्ते गृह्णाति । 'ॐ एकमिषे विष्णुस्त्वाऽन्वेतु द्वे उर्जे० होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति वधूं वेदिरूपदेवयजनमुदानयति । 'ॐ सखाऽसि सप्तपदा अभूम सख्यं ते गमेय सख्यान्मे मा योष सख्यान्मे मा योष्ठाः' इति सप्तमं पदमुपसंगृह्य जपति ।

 ([२] ततः सतूर्यघोषो वरो वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूस्ततो गौरीहरसमीपं गत्वोपविशेत् । ) निरीक्षणप्रभृति वायनदानान्तं शिष्टाः क्वचिद्देशे मध्यगृहे कुर्वन्ति । क्वचिन्मण्डपे । 'सूर्यभौमबृहस्पतिशनैश्चरवारेषु मध्यगृहे दंपत्योः परस्परं निरीक्षणं न भवति । सोमबुधशुक्रवारेषु मण्डपे न भवति । कालस्य तत्र निवासात्' इति ज्योतिर्निबन्धोक्तमिदानीं शिष्टा न स्वी कुर्वन्तीत्यत्र हेतुं न विद्मः ।

 अस्तु देशविशेषेण[३] वारविशेषेण वा निरीक्षणे विशेषः । तथाऽपि कन्यादानं तु मण्डप एव कर्तव्यं, प्रधानस्य कन्यादानस्य मण्डप एव करणस्य युक्तत्वात् । अन्यथा तन्निर्मितेः स्वकर्तृकप्रधानकर्मण्यसंबन्ध एव स्यादिति युक्तं चेद्ग्राह्यम् ।)


  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ख. पुस्तकयोः । 'ततः सतूर्यघोषो वरो वध्वा सह वेद्यां प्राङ्मुख उपविशेत् । वधूस्ततो गौरीहरसमीपं गत्वोपविशेत्' इति ग्रन्थो वर्तते । ग. पुस्तके तु अभ्रातृघ्नीमित्यादिरुपसंगृह्य जपतीत्यन्तो ग्रन्थो नास्ति ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो ग. पुस्तके युक्तं चेद्ग्राह्यमित्यनन्तरं वर्तते ।
  3. ग. ड. ण वा नि ।