पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५६९

पुटमेतत् सुपुष्टितम्
[विवाहः]
५६१
संस्काररत्नमाला
( विवाहहोमः )
 

अथ विवाहहोमः ।

 वर आचम्य प्राणानायम्य देशकालौ संकीर्त्य मत्प्रतिगृहीतवधूद्देश्यकभार्यात्वसिद्धिपूर्वकाग्नावौपासनत्वसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विवाहहोमं करिष्य इति संकल्पं कृत्वा स्थण्डिलोल्लेखनादि कृत्वा तत्र योजकनामानमग्निं प्रतिष्ठापयामीति मथितं वधूवरयोर्वेद्यारोहणात्पूर्वमेव सुवासिन्या श्रोत्रियागारादाहृत्य वेद्या उत्तरतोऽधोभागे स्थापितं लौकिकाग्निं वा प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा विवाहहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे-- अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं गार्हपत्यमेकयाऽऽज्याहुत्या यक्ष्ये । अग्निमेकयाऽऽज्याहुत्या यक्ष्ये । दिवं वायुमश्विनौ सवितारं बृहस्पतिं विश्वान्देवांश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये[१] । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये[२] । अग्निमयसमेकयाऽऽज्याहुत्या यक्ष्ये । प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्ये । लाजहोमे--अग्निं तिसृभिर्लाजाहुतिभिर्यक्ष्ये । अग्निं स्विष्टकृतमेकया हुतशेषाज्याहुत्या यक्ष्य इति वदेत् । यत्र यत्र सूत्रकृदथ सौविष्टकृतीं जुहोतीत्यथशब्दप्रयोगं करोति तत्र त[३]द्द्रव्येण स्विष्टकृत् । अन्यत्र त्वाज्येनेति । न ह्यत्राथशब्दः सूत्रकृता प्रयुक्तोऽस्ति । अतोऽत्राऽऽज्येनैव स्विष्टकृद्धोमः ।

 ततो जयोपहोमे चित्तं चित्तिमित्यादि कामं गन्धर्वमाधी[४]नप्सरसः, भुवनस्य पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्यन्तमुक्त्वा, प्रायश्चित्तहोमे--अग्निं त्रिभिरित्यादि । पात्रासादने प्रादेशमात्रमश्मानं व्रीह्यादिबीजानि सपल्लवमुदकपूर्णं सुभूषितं कलशं दर्वीमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं लाजांश्च युगपदेवाऽऽसादयेत् ।

 ततो ब्रह्मोपवेशनादि । पात्रसंमार्गकाले वध्वञ्जलिसंमार्गार्थं कांश्चित्संमार्गदर्भानवशेषयेत् । आज्यपर्यग्निकरणकाले लाजानामपि तेन सह पर्यग्निकरणम् । परिधिपरिधानान्ते लाजान्दर्व्याऽभिघार्याऽऽज्याग्न्योर्मध्येनाऽऽनीयाऽऽज्यस्योत्तरतो बर्हिष्यासादयेत् ।

 ततः "ॐ सुमङ्गलीरियं वधूरिमा समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं



७१
 
  1. ख. ग. ङ. क्ष्ये ला ।
  2. च. क्ष्ये ला ।
  3. ड. तत्तद्र ।
  4. ख. ग. ङ. च. धीरप्स ।