पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५७०

पुटमेतत् सुपुष्टितम्
५६२
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( विवाहहोमः )
 

विपरेतन" इति वधूमीशानदेशतो बान्धवैः समानीयमानां सुमुहूर्ते समीक्षते[१] । इत आरभ्य पाणिग्रहणान्तं कर्म सुमुहूर्त एव कर्तव्यं प्रधानत्वात् ।

 ततो वधूरग्नेरीशानदेश उपविश्य कर्माङ्गमाचमनं कृत्वाऽग्रेणाग्निं दक्षिणतो गत्वा पत्युर्दक्षिणतः प्राङ्मुख्युपविश्य दक्षिणेनैव हस्तेन पतिमन्वारभते । अपरेणाग्निं दक्षिणतो गमनमिति केचित् ।

 अथ वरस्तदन्वारब्धः परिषेकादिव्याहृतिहोमान्तं कृत्वा प्रधानहोमं कुर्यात् । 'ॐ अग्निरैतु प्रथमो देवताना सोऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदय राजा वरुणोऽनुमन्यतां यथेय स्त्री पौत्रमघं नरोऽदात्स्वाहा' अग्नये वरुणाय चेदं न मम । 'ॐ इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामिय स्वाहा' अग्नये गार्हपत्यायेदं न मम । 'ॐ मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वम्बिके शूर आवधिष्ठा जीव पत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाय स्वाहा' अग्नय इदं न मम । 'ॐ द्यौस्ते पृष्ठ रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताऽभिरक्षतु । आवाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात्स्वाहा' दिवे वायवेऽश्विभ्यां सवित्रे बृहस्पतये विश्वेभ्यो देवेभ्यश्चेदं न मम । 'ॐ अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाऽधम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पाप स्वाहा' अग्नय इदं न मम । 'ॐ देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्राः स्वाहा' अग्नय इदं न मम । इति षट्प्रधानाहुतीर्वारुणीजिह्वायां ज्वालामध्य एव वा हुत्वा, इमं मे वरुणेत्यादि षडाहुतीर्हुत्वोत्तरपरिधिसंधिमग्रेणाऽऽसादितमश्मानं निधाय, 'ॐ आतिष्ठेममश्मानमश्मेव त्व स्थिरा भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायतः' [ इति ] तत्र दक्षिणपादोपक्रमेण वधूं प्राङ्मुखीमास्थापयति । ततोऽश्मानं निष्काशयेत् ।



  1. ग. ते । 'अभ्रातृघ्नीं वरुणापतिघ्नीं बृहस्पत इन्द्रापुत्रघ्नीं लक्ष्म्यन्तामस्यै सवितुः सवे' इति वरोऽवेक्षते । 'अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे' इति वध्वेक्षमाणो वरो जपति । 'इदमहं या त्वयि पतिदृन्यलक्ष्मीस्तां निर्दिशामि' इति वधूं मुखे दर्भेण संमार्ष्टि । दर्भ निरस्याप उपस्पृश्य 'मित्रोऽसि' इति वधूं दक्षिणहस्ते गृह्णाति । 'एकमिषे विष्णुस्त्वाऽन्वेतु द्वे ऊर्जे० होत्राभ्यो विष्णुस्त्वाऽन्वेतु' इति वधूं वेदिरूपदेवयजनमुदानयति । 'सखाऽसि सप्तपदा अभूम सख्यं ते गमेय सख्यान्मे मा योष सख्यान्मे मा योष्ठाः' इति सप्तमं पदमुपसंगृह्य जपति । इ ।