पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५८१

पुटमेतत् सुपुष्टितम्
[विवाहः]
५७३
संस्काररत्नमाला
( गृहप्रवेशप्रयोगः)
 

हाग्नेर्गृह्यत्वोत्पादनद्वारा श्रीपरमेश्वरप्रीत्यर्थं गृहप्रवेशाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । न वा संकल्पः ।

 ततो गणेशं संपूज्योद्धननादिसंस्कृत आयतने विवाहाग्निं तूष्णीं प्रतिष्ठाप्य प्रज्वलितं कुर्यात् ।

 ततोऽपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य

"ॐ इह गावो निषीदन्त्विहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणोऽपि पूषा निषीदतु" ।

 इति तस्मिञ्जायापती प्राङ्मुखावुदङ्मुखौ वोपविशतः । प्राङ्मुखत्वपक्षे पत्युर्दक्षिणतो भार्या । उदङ्मुखत्वपक्षे तस्य पृष्ठतो वामभागे वा । उभयोर्मन्त्रः। अत आरभ्य नक्षत्रोदयपर्यन्तं वाग्यतावासाते । आनडुहचर्माभावे तार्णतल्पो ग्राह्यः ।

 तथा चाऽऽश्वलायनस्मृतिः--

"गृहप्रवेशेऽनडुहश्चर्मास्तरणमिष्यते ।
तस्याभावे तु तार्णस्य तल्पस्याऽऽस्तरणं भवेत्" इति ।

 तल्पोऽत्राऽऽसनम् । उदितेषु नक्षत्रेषु वध्वा सह प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य तया सहैव प्राङ्मुख उदङ्मुखो वा, देवीः पडुर्वीरित्यस्यार्धस्याग्निर्दिशस्त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ देवीः षडुर्वीरुरुणः कृणुत विश्वे देवास इह वीरयध्वम्' इति दिश उपतिष्ठते । बहुवचनलिङ्गात्सकृन्मन्त्रः ।

 मा हास्म हीत्यस्य पादस्याग्निर्नक्षत्राणि त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ मा हास्म हि प्रजया मा तनूभिः' इति नक्षत्रााणि सकृन्मन्त्रमुक्त्वैवोपतिष्ठते । सर्वेषां नक्षत्राणामुपस्थानासंभवाद्यावन्ति दृष्टिगोचराणि भवन्ति तेषामुपस्थानम् । अशक्यत्वात्सकृन्मन्त्रः ।

 मारधामेत्यस्य पादात्मकस्य मन्त्रस्याग्निश्चन्द्रमास्त्रिष्टुप् । उपस्थाने विनियोगः । 'ॐ मारधाम द्विषते सोमराजन्' इति चन्द्रमसम् ।

"ॐ सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवता ह निन्युः ।
षट्कृत्तिकामुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमी" ।

 इति सप्तर्षीनरुन्धतीसहितानुपतिष्ठते । बहुवचनलिङ्गात्सकृन्मन्त्रः ।

"ॐ ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवमसि ध्रुवतस्थितं
त्वं नक्षत्राणा मेथ्येसि स मा, पाहि पृतन्यतः ।