पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५९४

पुटमेतत् सुपुष्टितम्
५८६
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( विवाहनिमित्तेन वर्ज्यानि )
 

यित्वेतरदिने कार्यम् । पुण्याहवाचनाभिषेकान्ते पुरोधास्तच्छाखादिकं वंशपात्रे निधाय तदुपरि प्रक्षिप्ताभिषेकजलं सकुटुम्बस्य कर्तुः शिरसि किंचित्किंचित्स्रावयेत् ।

 "ॐ प्रेति चेति चे० रागच्छति" इति स्रावणकाले पठेत् । एवं पुनर्द्विः । एतच्चाऽऽचारात् ।

 ततः कर्ता शिरसि बद्धाञ्जलिः, अस्मद्गोत्रे षटसु षट्सु मासेसु शोभनानि सन्त्विति भवन्तो ब्रुवन्त्विति द्विजान्वदेत् । ते च त्वद्गोत्रे षट्सु षट्सु मासेषु शोभनानि सन्त्विति प्रतिब्रूयुः ।

 ततो द्विजान्गन्धपुष्पफलताम्बूलदक्षिणाभिः संपूज्य तदाशिषो गृह्णीयात् । एवं वरपित्राऽपि देवकोत्थापनं कार्यम् ।

 यत्तु मुहूर्तमार्तण्डटीकायां विवाहदिनमारभ्य नवत्रिषष्ठदिवसेषूद्वासनमपि[१] न कार्यमित्युक्तं तन्मण्डपस्य नतु देवकादेरिति द्रष्टव्यम् ।

इति मण्डपोद्वासनम् ।

अथ विवाहनिमित्तेन वर्ज्यानि ।

 तत्र मातृकास्थापनमारभ्य मातृकोद्वासनपर्यन्तं कानिचिद्वर्ज्यानि कानिचित्तदुत्तरमपि[२] वर्ज्यानि ।

 तत्राऽऽद्यानि वृद्धमनुः--

"अपसव्यं स्वधा यात्रा शीताद्भिः स्नानमेव च ।
सपिण्डा नैव कुर्वीरन्यावन्मातृविसर्जनम्" इति ॥

 अत्रापसव्यस्वधाशब्दाभ्यां तद्वत्कार्यं ल[३]क्ष्यते । अपसव्यमित्यनेनैव सिद्धे स्वधाशब्दोपादानं स्वधा पितृभ्यः स्वाहेति पितृयज्ञसहचरितवैश्वदेवनिषेधार्थम् । आचारसंवादलाभात् ।

"प्रेतदाहो दधिस्नानं स्ना[४]नं शीतेन वारिणा ।
वैश्वदेवः स्वधाकृत्यं ब्रह्मयज्ञ उपोषणम् ॥
वेदस्याध्ययनं चैव वेदस्याध्यापनं तथा ।
सीमातिक्रमणं नैव देवकोत्थापनावधि" ॥

 इति धर्मप्रदीपवचनाच्च ।



  1. क. पि का ।
  2. क. पि । त ।
  3. ग. ङ. च. लभ्यते ।
  4. क. स्नातं ।