पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०३

पुटमेतत् सुपुष्टितम्
[विवाहः]
५९५
संस्काररत्नमाला
( अर्कविवाहप्रयोगः )
 

 इत्यर्कस्य पुरतस्तिष्ठन्सूर्यं संप्रार्थ्य श्वेववस्त्रेण कार्पासतन्तुभिश्च तं संवेष्ट्य, आ सत्येनेत्यस्य विश्वे देवाः सविता त्रिष्टुप् । पूजायां विनियोगः-- "ॐ आ सत्येन रजसा० विपश्यन्" इति च्छायया सहितं रविं तत्राऽऽवाह्यैतेनैव मन्त्रेणाऽऽसनाद्याचमनीयान्तानुपचारान्समर्प्य, आ सत्येनेत्यस्य विश्वे देवाः सविता त्रिष्टुप् । आपो हि ष्ठेति मन्त्रत्रयस्याग्निर्विश्वे देवा वाऽऽपो गायत्री । अभिषेके विनियोगः--

"ॐ आ सत्येन रजसा० विपश्यन्" "ॐ आपो हि ष्ठा०" इति ।

 सर्वान्तेऽभिषिच्याऽऽ सत्येनेत्येतेनैव मन्त्रेण वस्त्रोपवीतमाल्यगन्धपूष्पधूपदीपैः संपूज्य गुडौदनं निवेद्य ताम्बूलादि समर्पयेत् ।

"मम प्रीतिकरा येयं मया स्पृष्टा पुरातनी ।
अर्कजा ब्रह्मणा स्पृष्टा साऽस्माकं प्रतिरक्षतु"

 इत्यर्कं प्रदक्षिणी कुर्वन्पठित्वा--

"नमस्ते मङ्गले देवि नमः सवितुरात्मने ।
त्राहि मां कृपया देवि पत्नी त्वं म इहाऽऽगता ।
अर्क त्वं ब्रह्मणा सृष्टः सर्व प्राणिहिताय च ।
वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्धनः ।
तृतीयोद्वाहजं पापं मृत्युं चाऽऽशु विनाशय[१]
आयुर्देहि यशो देहि प्रजां देहि पशूनपि ।
देहि[२] मेऽर्क श्रियं पुष्टिं स्वस्थानेऽर्क स्थिरो भव"।

 इति पुनः प्रदक्षिणां कुर्यात् ।

 ततोऽर्ककन्यावरणम् । प्रतिग्रहीतृपक्षीया अमुकप्रवरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रा[३]य काश्यपगोत्रामादित्यस्य प्रपौत्रीं सवितुः पौत्रीमर्कस्य पुत्रीमिमामर्ककन्यां वृणीमह इति वदेयुः । वृणीध्वमित्याचार्यः प्रतिवदेत् । एवं पुनर्द्विः ।

 ततो वरः सुमुहूर्ते "ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः०" "ॐ अष्टौ देवा क्सवः सोम्यासः०" इति मन्त्रौ पठन्नर्कं निरीक्षेत्(त)।

 तत आचार्यप्रमुखैराशीर्घोषवद्भिर्द्विजैर्युतोऽर्ककन्यादानार्थं कल्पितमाचार्यं स्वसमीप आहूयोपविश्य तस्मात्तां विधिवत्प्रतिगृह्णीयात् ।



  1. क. ख. य इ ।
  2. ग. हि कामाञ्श्रियं ।
  3. च. त्रायामुकशर्मणे वराय का ।